CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 9 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)

स्वतन्त्रभारतस्य सम्पूर्णं दायित्वम् अद्य छात्राणामुपरि अस्ति यतः अद्य ये विद्यार्थिनः सन्ति ते एव श्वः स्वतन्त्र भारतस्य नागरिका: भविष्यन्ति। भारतस्य उन्नतिः पतनञ्च तेषामेव उन्नति पतनयोः निर्भरे स्तः । अतः छात्राः स्वभावीजीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्युः, इदमेव तेभ्य: अपेक्षते । ते प्रत्येकं क्षणं स्वराष्ट्रं स्वसमाजं, स्वधर्मं, स्वसंस्कृतिञ्च स्वनेत्रयोः पुरतः निक्षिपेयुः यतः तेषां जीवनेन राष्ट्रं किञ्चिद् बलं प्राप्तुं शक्नुयात्।

ये छात्राः राष्ट्रीयदृष्टिकोणात् स्वजीवनस्य निर्माणं न कुर्वन्ति, ते राष्ट्राय समाजाय वा भारभूताः एव भवन्ति । विद्यार्थिनां लक्ष्यं विद्योपार्जनमेवास्ति। विद्योपार्जनम् कृत्वा एव ते राष्ट्रं प्रति स्वकर्तव्यस्य निर्वाहं कर्तुं शक्नुवन्ति ।

प्रश्ना:
अ. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) छात्राणामुपरि कस्य दायित्वम् अस्ति ?
(ii) विद्यार्थिनां लक्ष्यं किम् ?
(iii) के श्वः स्वतन्त्र भारतस्य नागरिकाः भविष्यन्ति ?
उत्तराणि:
(i) स्वतन्त्र भारतस्य
(ii) विद्योपार्जनम्
(iii) विद्यार्थिनः

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (2 × 2 = 4)
(i) छात्रेभ्यः किम् अपेक्षते ?
(ii) कीदृशा: छात्रा: राष्ट्राय समाजाय वा भारभूताः एव भवन्ति ।
(iii) भारतस्य उन्नतिः पतनञ्च केषाम् एवं उन्नति पतनयोः निर्भरे स्तः ?
उत्तराणि:
(i) छात्रा: स्वभावीजीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्युः, इदमेव तेभ्यः अपेक्षते ।
(ii) ये छात्रा : राष्ट्रीयदृष्टिकोणात् स्वजीवनस्य निर्माणं न कुर्वन्ति, ते राष्ट्राय समाजाय वा भारभूताः एव भवन्ति ।
(iii) भारतस्य उन्नतिः पतनञ्च छात्राणाम् एव उन्नतिपतनयोः निर्भरे स्तः ।

इ. उपयुक्तं शीर्षकं – अस्य अनुच्छेदस्य कृते एकं उचितं शीर्षकं लिखत । (1 × 1 = 1)
उत्तराणि:
उपयुक्तं शीर्षक – विद्यार्थिनां लक्ष्यं / विद्योपार्जनम् / सुसंस्कृता: नागरिका: / स्वतन्त्र भारतस्य नागरिकाः ।

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्)

(i) अनुच्छेदे ‘छात्राणाम्’ इत्यस्य कः पर्यायः आगतः ?
(क) तेषाम्
(ख) भारतस्य
(ग) विद्यार्थिनाम्
(द) छात्रा:
उत्तराणि:
(ग) विद्यार्थिनाम्

(ii) ‘शक्नुयात्’ इति पदे कः लकारः ?
(क) लट्
(ख) लोट्
(ग) विधिलिङ्ग
(द) लृट्
उत्तराणि:
(ग) विधिलिङ्ग

(iii) ‘पृष्ठतः’ इत्यस्य पदस्य कः विपर्ययः अनुच्छेदे आगतः ?
(क) पुरतः
(ख) ते
(ग) ये
(द) अग्रः
उत्तराणि:
(क) पुरतः

(iv) ‘विद्योपार्जनं कृत्वां एव ते राष्ट्रं प्रति स्वकर्त्तव्यस्य निर्वाहं कर्तुम् शक्नुवन्ति ।’ अत्र किम् अव्यय पदं प्रयुक्तम् ?
(क) कर्तुं
(ख) एव
(ग) कृत्वा
(द) प्रति
उत्तराणि:
(ख) एव

रखण्ड ‘ख’ : रचनात्मकं कार्यम्
(15 अङ्काः)

2. स्वमित्रं एकादश-कक्षायां संस्कृतं पठितं प्रेरयितुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (चिन्तनात्मकः प्रश्नः) (1⁄2 × 10 = 5)

छात्रावासः
(i) ………….
दिनाङ्क ………….
प्रिय आदित्य,
(ii) ………..

अत्र कुशलं तत्रास्तु। तव (iii) …………… ज्ञातं यत् त्वम् एकादश कक्षायां संस्कृतभाषां पठितुम् इच्छसि । एतत् ज्ञात्वा अहम् अति प्रसन्न: (iv) …………. यतः संस्कृतम् पठित्वा वयं स्वदेशस्य गौरवम् अनुभवितुं (v) ………….. । इयं देवभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वैज्ञानिकी च अस्ति । विश्वस्य (vi) …………. भाषासु भारतीयभाषासु च (vii) ………. शब्दा: प्राप्यन्ते। किं त्वं जानासि यत् वेदाः, रामायणम्, महाभारतम्, उपनिषदः पञ्चतन्त्रहितोपदेशादयः (viii) …………. संस्कृते एव लिखिताः सन्ति? अतः स्वं सर्वै: (ix) …………. सह संस्कृतम् अपि परिश्रमेण पठ। अवकाशेषु मम गृहम् आगच्छ। मातापितृभ्यां मम प्रणामान् कथय ।
तव (x) ……….
वैभव:

मञ्जूषा
अभवम्, नमोनमः, मित्रम्, शक्नुमः, विषयैः, देहरादूनतः, संस्कृतस्य, अनेकासु, पत्रेण, ग्रन्था।
उत्तराणि:
छात्रावासः
(i) देहरादूनतः
दिनाङ्क ………….
प्रिय आदित्य,
(ii) नमोनमः

अत्र कुशलं तत्रास्तु। तव (iii) पत्रेण ज्ञातं यत् त्वम् एकादश कक्षायां संस्कृतभाषां पठितुम् इच्छसि । एतत् ज्ञात्वा अहम् अति प्रसन्न: (iv) अभवम् यतः संस्कृतम् पठित्वा वयं स्वदेशस्य गौरवम् अनुभवितुं (v) शक्नुमः । इयं देवभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वैज्ञानिकी च अस्ति । विश्वस्य (vi) अनेकासु भाषासु भारतीयभाषासु च (vii) संस्कृतस्य शब्दा: प्राप्यन्ते। किं त्वं जानासि यत् वेदाः, रामायणम्, महाभारतम्, उपनिषदः पञ्चतन्त्रहितोपदेशादयः (viii) ग्रन्थाः संस्कृते एव लिखिताः सन्ति? अतः स्वं सर्वै: (ix) विषयैः सह संस्कृतम् अपि परिश्रमेण पठ। अवकाशेषु मम गृहम् आगच्छ। मातापितृभ्यां मम प्रणामान् कथय ।
तव (x) मित्रम् ।
वैभव:

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions - 1
मञ्जूषा
वाहनानाम्, धूमः, दूषितम्, उद्योगस्य, आवागमनम्, निःसृतः वातावरणम्, वस्त्रप्रक्षालनम्, समीपम्, करोति, स्नानम्, भवति, उद्योगात् ।
उत्तराणि:
(1) अस्मिन् चित्रे उद्योगात् निःसृतः धूमः वातावरणं दूषितम् भवति ।
(2) एका महिला नद्याः तटे वस्त्रप्रक्षालनम् करोति ।
(3) नद्याम् बालकाः स्नानम् कुर्वन्ति ।
(4) अत्र वाहनानाम् आवागमनं निरन्तरं भवति ।
(5) एका : बालः नद्याम् अवकरं क्षिपति ।

अथवा

‘चिकित्सालयस्य वर्णनम्’ इति विषयम् अधिकृत्य मञ्जूषापदानां सहायतया संस्कृतेन पञ्चवाक्यानि एकम् अनुच्छेदं लिखत ।
मञ्जूषा
चिकित्सकाः, औषधि, वातावरणं, शुद्धं भोजनम्, वायुः, प्रातःकाल- भ्रमणम्, हितकरम्, स्वास्थ्यम्, प्रतिदिनं, अहर्निशम्, सेवाम्, औषधालयः, मिलन्ति, आगच्छन्ति, पश्यन्ति
उत्तराणि:
(1) चिकित्सालये विविधरोगसम्बद्धाः अनेके चिकित्सकाः सन्ति ।
(2) प्रात: काल भ्रमणं स्वास्थ्याय हितकरं भवति ।
(3) औषधालये औषधि : मिलन्ति ।
(4) अत्र प्रतिदिनं रुग्णाः जनाः आगच्छन्ति ।
(5) चिकित्सालये रुग्णान् जनान् शुद्धं भोजनं वितरितं ।

4. अधोलिखितानि वाक्यानि संस्कृत भाषया अनूद्य लिखत् (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)

(1) मैं घर जाना चाहता हूँ ।
(2) जाते हुए मैंने सर्प को देखा।
(3) वृक्ष पर बन्दर चढ़ता है।
(4) विद्या खर्च करने पर बढ़ती है।
(5) गंगा को भागीरथी भी कहा जाता है।
(6) उसका नाम ऋषिकुमार है।
(7) क्रिकेट उसका प्रिय खेल है।

1. I want to go home.
2. I saw a snake while going.
3. Monkey climbs the Tree.
4. Education increase while spends.
5. Ganga call Bhagirathi too.
6. His name is Rishi kumar.
7. Cricket is his favourite game.
उत्तराणि:
(1) अहम् गृहम् गन्तुम् इच्छामि ।
(2) गच्छन् अहं सर्पं अपश्यम् ।
(3) कपिः वृक्षे आरोहति ।
(4) विद्या व्यये कृते वर्धते ।
(5) गंगा भागीरथी इत्यपि कथ्यते ।
(6) तस्य अभिधानम् ऋषिकुमारः अस्ति ।
(7) क्रिकेटं तस्य प्रियं क्रीडा अस्ति ।

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(10 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टम्) (1 ×4 = 4)

(i) स तु चक्रम् एव अयाचत ।
(ii) अतः अहम् एतत् + ब्रवीमि तस्मिन् द्रोणपुत्रे न विश्वसितव्यम् ।
(iii) अतः प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणामय इति ।
(iv) मम विद्यालये पण्नवतिः छात्राः सन्ति ।
(v) दन्तै: +हीनः शिलाभक्षी परपादेन गच्छति ।
उत्तराणि:
(i) सः तु
(ii) एतद् ब्रवीमि
(iii) चक्षुष: + अस्य
(iv) षट् + नवतिः
(v) दन्तैर्हीनः ।

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 5 = 5)

(i) सत्यसमं तपः नास्ति ।
(क) सत्ोग समम्
(ख) सत्यस्य समम्
(ग) सत्यात् समम्
(घ) सत्ये समम्
उत्तराणि:
(क) सत्ोग समम्

(ii) एतत् निर्जनम् वनम् अस्ति ।
(क) निर् जनम्
(ख) जनानाम् अभावः
(ग) नि: जनम्
(घ) जनस्य अभावः
उत्तराणि:
(ख) जनानाम् अभावः

(iii) लव: च कुश: च सीतायाः पुत्रौ ।
(क) लवकुश
(ख) लवकुशम्
(ग) लवकुशे
(घ) लवकुशाय
उत्तराणि:
(क) लवकुश

(iv) स: दुर्बला दृष्टि: यस्य सः तम् वृद्धम् अपश्यत् ।
(क) दृष्टिदुर्बला
(ख) दुर्बलदृष्टिः
(ग) दुर्बलदृष्टिम्
(घ) दुर्बलदृष्टाः
उत्तराणि:
(ग) दुर्बलदृष्टिम्

(v) स: शास्त्रपारंगतः अस्ति ।
(क) शास्त्रेषु पारंगतः
(ख) शास्त्रं पारंगत :
(ग) शास्त्रेण पारंगतः
(घ) शास्त्राय पारंगतः
उत्तराणि:
(क) शास्त्रेषु पारंगतः

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) यादृशी भावना सिद्धिः भवति तादृशी ।
(क) यादृशं + ङीप्
(ख) यादृश + ई
(ग) यादृ + शी
(घ) यादृश + ई
उत्तराणि:
(क) यादृशं + ङीप्

(ii) वृक्षाणां महत्वं कः न जानाति ।
(क) महत् + त्व
(ख) महत् + त्वं
(ग) महत् + त्वा
(घ) महा + त्व
उत्तराणि:
(क) महत् + त्व

(iii) पर्यावरण रक्षणं अस्माकं नैतिकम् कर्त्तव्यं अस्ति ।
(क) नीति + ठक्
(ख) नैति + कम्
(ग) नैतिक + म्
(घ) नीति + म्
उत्तराणि:
(क) नीति + ठक्

(iv) शक्तिमान् जनः रक्षति सर्वम् ।
(क) शक्ति + मान्
(ख) शक्ति + मतुप्
(ग) शक्ति + वतुप्
(घ) शक्ति + मत्
उत्तराणि:
(ख) शक्ति + मतुप्

(v) कुलटा कुलस्य नाशिका भवति ।
(क) नाशक + टाप्
(ख) नाशक + आ
(ग) नाश + का
(घ) नाशि + का
उत्तराणि:
(क) नाशक + टाप्

8. वाल्मीकेः आश्रमे वटवः लवः च वार्तालापं कुर्वन्ति । वटवः कर्तृवाच्ये लवः कर्मवाच्ये वदति । वाच्यानुसारं रिक्तस्थानानि पूरयत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) वटव :- कुमार ! आश्चर्यं …………….. ।
(क) पश्यतु
(ख) पश्यति
(ग) पश्येते
(घ) पश्यसि।
उत्तराणि:
(क) पश्यतु

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

(ii) लव:- मया ! नूनम् अश्वमेधिकोऽयम् अश्वः ………….. ।
(क) दृष्आ
(ख) दृष्टम्
(ग) दृष्टः
(घ) दृष्टानि।
उत्तराणि:
(ख) दृष्टम्

(iii) वटवः – त्वं कथं ………………. ?
(क) जानाति
(ख) जानासि
(ग) जानामि
(घ) जानीमः।
उत्तराणि:
(ख) जानासि

(iv) लव:- मया अश्वः सम्यक् रूपेण ……………… ?
(क) ज्ञायते
(ख) ज्ञायेते
(ग) ज्ञानुमः
(घ) ज्ञातः
उत्तराणि:
(क) ज्ञायते

9. अधोलिखित रिक्तस्थानानि कालबोधकशब्दैः पूर्यन्ताम् । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) मम भ्राता प्रातः 5:00 भ्रमणार्थं गच्छति ।
(ii) अहं प्रात: 8:30 कार्यालयं गच्छामि।
(iii) तब माता मध्याहे 2:15 विद्यालयात् आगच्छति ।
(iv) मम जनक: सायं 7:45 गृहं प्राप्नोति ।
(v) कालकामेल (8:00) ………… वादने ।
उत्तराणि:
(i) पञ्च (वादने)
(ii) सार्ध- अष्ट (वादने)
(iii) सपाद द्वि (वादने)
(iv) पादोन अष्ट (वादने)
(v) अष्ट (वादने)।

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

10. अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयित्वा वाक्यानि उत्तरपुस्तिकायाम् लिखत । सहायतायै मञ्जूषा प्रदत्ता- (1 × 3 = 3)
(केवलं प्रश्नत्रयम्)

मधुरा – सुषमे ! (i) ……………… रात्रौ त्वम् कुत्र आसीः ?
सुषमा- मधुरे! अहम् चलचित्रम् दृष्टुम् अगच्छम्।
मधुरा – अहम् अपि (ii) …………. चलचित्रम् दृष्टुम् गमिष्यामि ।
सुषमा- किमर्थम् ?
मधुरा – (iii) …………… भयं नास्ति ।
सुषमा – अहम् (iv) …………… त्वया सह चलिष्यामि ।
मञ्जूषा – तत्र, श्वः, अपि, य:
उत्तराणि:
मधुरा – सुषमे ! (i) य: रात्रौ त्वम् कुत्र आसीः ?
सुषमा- मधुरे! अहम् चलचित्रम् दृष्टुम् अगच्छम्।
मधुरा – अहम् अपि (ii) श्वः चलचित्रम् दृष्टुम् गमिष्यामि ।
सुषमा- किमर्थम् ?
मधुरा – (iii) तत्र भयं नास्ति ।
सुषमा – अहम् (iv) अपि त्वया सह चलिष्यामि ।

11. रेखाङ्कितपदानां स्थाने शुद्धं विकल्पं चित्वा वाक्यानि पुनः लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) उद्याने एक: वृक्षाः सन्ति ।
(क) अनेक:
(ख) अनेके
(ग) अनेकानि
(घ) अनेकाः
उत्तराणि:
(ख) अनेके

(ii) एक : चन्द्रः तमः हन्मि
(क) हन्ति
(ख) हंसि
(ग) हतः
(घ) हताः
उत्तराणि:
(क) हन्ति

(iii) मम मातुः नामः श्रीमती श्यामा अस्ति ।
(क) नामम्
(ख) नाम्
(ग) नाम
(घ) नामानि
उत्तराणि:
(ख) नाम्

(iv) सदैव सत्यं ब्रूयात् प्रियः ब्रूयात् ।
(क) प्रिया
(ख) प्रिये
(ग) प्रियम्
(घ) प्रियाम्
उत्तराणि:
(ग) प्रियम्

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषाया: गृहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति । न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।
अतएवोच्यते – दुष्कराण्यपि कर्माणि मतिवैभवशालिनः ।
नीतिं युक्तिं समालम्बय लीलयैव प्रकुर्वते ॥

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1)

(क) केन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ ?
(ख) कस्य फलं भुङ्क्ष्व ?
(ग) कानि अपि कर्माणि मतिवैभवशालिनः ।
उत्तराणि:
(क) न्यायाधीशेन
(ख) निजकृत्यस्य
(ग) दुष्कराणि ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) शवः प्रावारकमपसार्य न्यायाधीशं अभिवाद्य किम् निवेदितवान् ?
(ख) न्यायाधीशः कम् मुक्तवान् ?
(ग) मतिवैभव शालिनः दुष्कराणि कार्याणि कथं साधयन्ति ?
उत्तराणि:
(क) शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य इदं निवेदितवान् – मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘त्वयाऽहं चोरितायाः मञ्जूषायाः गृहणाद् वारितः अतः निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।
(ख) न्यायाधीशः आरक्षिणे कारादण्डमादिश्यतं जनं ससम्मानम् मुक्तवान्।
(ग) मतिवैभवशालिनः दुष्कराणि कार्याणि नीति युक्तं समालम्ब्य साधयन्ति ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘भुङ्क्ष्व’ पदे कः लकारः प्रयुक्तः ?
(ख) ‘कौतुकेन’ इत्यर्थे अत्र कः पर्यायः प्रयुक्त: ?
(ग) ‘मुक्तवान्’ पदस्य किं कर्तृपदं प्रयुक्तं ?
उत्तराणि:
निर्देशानुसारं / भाषिक कार्यम्-
(क) लोट्
(ख) लीलयैव
(ग) न्यायाधीशः ।

13. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1)

(क) कीदृशं कर्म न करणीयम् ?
(ख) नरः केभ्यः दुष्कर्म न कुर्यात् ?
(ग) क: आत्मनः श्रेयः इच्छति ।
उत्तराणि:
(क) अहितम्
(ख) परेभ्यः
(ग) नर:

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) परोपकारेण कस्य श्रेयः भवति ?
(ख) कानि सुखानि नरः इच्छति ?
(ग) अहितं कर्म करणेन किम् न प्राप्नोति ?
उत्तराणि:
(क) परोपकारेण आत्मनः श्रेयः भवति
(ख) प्रभूतानि सुखानि नरः इच्छति ।
(ग) अहितं कर्म करणेन आत्मश्रेयः न प्राप्नोति ।

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – ( केवलं प्रश्नद्वयम्)

(क) ‘इच्छति’ इति क्रियापदस्य अत्र किं कर्तृपदं प्रयुक्तं ?
(ख) ‘कल्याणम्’ इत्यर्थे अत्र कः पर्याय पदं प्रयुक्तं ?
(ग) ‘प्रभूतानि ‘ इत्यस्य पदस्य किं विशेष्य पदं प्रयुक्तम् ?
उत्तराणि:
(क) यः
(ख) श्रेय:
(ग) सुखानि ।

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)

मयूरः – (वृक्षोपरित:- साट्टहासपूर्वकम् ) विरम विरम आत्मश्लाघायाः किं न जानासि यत्-
यदि न स्यान्नरपतिः समयङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ।।
को न जानाति तव ध्यानावस्थाम् । ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि । धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम् ।
वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्य: वनराजपदाय । शीघ्रमेव मम राज्यभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः ।
मयूरः – अरे वानर ! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय ? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं माम् वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु । अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।
प्रश्ना:

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 x 2 = 1)
(क) सगर्वम् कः कथयति ?
(ख) के मम राज्यभिषेकाय तत्पराः भवन्तु ?
(ग) विरम विरम आत्मश्लाघायाः किं न जानासि क : अकथयत् ?
उत्तराणि:
(क) वानरः
(ख) वन्यजीवाः
(ग) मयूरः ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(क) बकः कीदृशम् मीनान् छलेन अधिगृहय् क्रूरतया भक्षयति ?
(ख) विधात्रा कम् पक्षिराज : वृत: ?
(ग) वानर : (सगर्वं) कि वदति ?
उत्तराणि:
(क) बकः वराकान् मीनाम् छलेन अधिगृह्य क्रूरतया भक्षयति ।
(ख) विधात्रा मयूरं पक्षिराजः कृतः ।
(ग) वानरः (सगर्वं) वदति – ” अहमेव योग्य ः वनराज पदाय शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः” ।

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘अतिविकल्थनम्’ इत्यर्थे अत्र कः पर्यायपदं प्रयुक्तं ?
(ख) ‘नौरिव’ पदे सन्धिच्छेदं कुरू ?
(ग) ‘अधिगृह्यं’ पदे कः उपसर्ग: प्रयुक्तः ?
उत्तराणि:
(क) आत्मश्लाघा
(ख) नौ + इव
(ग) अधि ।

15. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)

(क) निजकृत्यस्य फलं भुङ्क्ष्व ।
(ख) पुरा त्वया मह्यम् व्याघ्रत्रयं दत्तम्।
(ग) आत्मकल्याणं इच्छन् नरः परेषां अनिष्टं न कुर्यात् ।
(घ) पुत्रस्य दैन्यं दृष्ट्वा सुरभिः रोदिति ।
(ङ) वायुमण्डलं भृशं दूषितं अस्ति ।
उत्तराणि:
(क) कस्य फलं भुङ्क्ष्व ?
(ख) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम् ?
(ग) आत्मकल्याणं इच्छन् नरः केषां अनिष्टं न कुर्याद् ?
(घ) कस्य दैन्यं दृष्ट्वां सुरभि: रोदिति ?
(ङ) किम् भृशं दूषितं अस्ति ?

16. अधोलिखितस्यः श्लोकस्य अन्वस्यः मञ्जूषातः पदानि चित्वा रिक्त स्थानानां पूर्ति कुरुत-
श्लोकः – प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।।
मानवाय जीवनं कामये नो जीवन्मरणम् ।

अन्वयः – लतातरुगुल्मा (i) ……………… पिष्टाः न भवन्तु । निसर्गे (ii) …………….. समानिष्टा न स्यात् (iii) ………….. जीवनं कामये (iv) ………….. न।
मञ्जूषा – जीवन्मरणम्, पाषाणीसभ्यता, प्रस्तरतले, मानवाय
उत्तराणि:
अन्वयः – लतातरुगुल्मा (i) प्रस्तरतले पिष्टाः न भवन्तु । निसर्गे (ii) पाषाणीसभ्यता समानिष्टा न स्यात् (iii) मानवाय जीवनं कामये (iv) जीवन्मरणं न।

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि-

श्लोकः –
अयि चल बन्धो ! खगकुलकलरव गुञ्जितवनदेशम् ।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्।।
चाकचिक्यजालं नो कुर्याज्जीवित सहरणम् ।।

अन्वयः – प्रस्तुते श्लोके कवि : (i) ………….. सफला कामना कुर्वत् अभिलाषां व्यक्तं करोति यत् मम बन्धो ! माम् अत्रतः (ii) ………. गुञ्जित वनप्रदेशं प्रति नय । अयं कलरव (iii) …………… सुख सन्देशम् प्रदानं करोति । अस्मिन् कृत्रिमं प्रभावपूर्णं जगति जीवनस्य रसस्य हरणम् नहि कुर्यात् यतोहि मानव जीवन एकं दुर्लभ जीवनं अस्ति एतां व्यर्थं नहि (iv) ……….. ।
मञ्जूषा – यापयेत्, जीवनस्य, मानवेभ्यः, पक्षिसमूह ध्वनिः ।
उत्तराणि:
भावार्थ – प्रस्तुते श्लोके कविः जीवनस्य सफला कामना कुर्वत् अभिलाषां व्यक्तं करोति यत् मम बन्धो ! माम् अत्रतः पक्षिसमूह ध्वनिः गुञ्जित वनप्रदेशं प्रति नय । अयं कलरव मानवेभ्यः सुख सन्देशम् प्रदानं करोति । अस्मिन् कृत्रिमं प्रभावपूर्णं जगति जीवनस्य रसस्य हरणम् नहि कुर्यात् यतोहि मानव जीवन एकं दुर्लभं जीवनं अस्ति एतां व्यर्थं नहि यापयेत् ।

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)

(क) क्रुद्धः सिंहः इतस्तत: धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति ।
(ख) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढ़ः।
(ग) वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशी दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति ।
(घ) अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहः तुदन्ति ।
(ङ) एक: सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति ।
(च) वनस्य समीपे एवैका नदी वहति ।
(छ) निद्राभङ्गदुखेन वनराज: तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति ।
(ज़) किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?
उत्तराणि:
(क) वनस्य समीपे एवैका नदी वहति ।
(ख) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति ।
(ग) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढ़ः।
(घ) अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहः तुदन्ति ।
(ङ) क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति ।
(च) वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशी दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति ।
(छ) निद्राभङ्गदुखेन वनराजः तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।
(ज़) किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?

18. अधोलिखितानां कथनानां पर्यायपदं लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या
(क) वाणिज्यं
(ग) वणिजः
(ख) वाणिज्येन
(घ) वाणिजां
उत्तराणि:
(क) वाणिज्यं

CBSE Sample Papers for Class 10 Hindi A Set 9 with Solutions

(ii) ततस्तत्प्रच्छादनं दोषमुत्पादयति ।
(क) प्रच्छादेन
(ख) आच्छादनं
(ग) आच्छादायाः
(घ) आच्छादाय
उत्तराणि:
(ख) आच्छादनं

(iii) राजनि अविरुद्धवृत्तिर्भव
(क) अविरुद्धः
(ख) अविरुद्धस्वभावः
(ग) अविरुद्धवृत्याः
(घ) अविरुद्धवृत्तं
उत्तराणि:
(ख) अविरुद्धस्वभावः

(iv) राजासनं खल्वेतत् च युक्तम् अध्यासितुम्
(क) उपवेष्टुम्
(ख) उपवसति
(ग) उपवेशयन्
(घ) उपवेशं
उत्तराणि:
(क) उपवेष्टुम्