CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 7 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)

“चलभाषियन्त्रम्” वर्तमानयुगस्य जीवनम् एव वर्तते । अस्य मुख्यं प्रयोजनं दूरस्थेन जनेन सह वार्तालाप: इति, परम् अद्य अस्माकं जीवनशैली एव अनेन पूर्णतया प्रभाविता वर्तते । अधुना अनेन केवलं वार्ता व न भवति अपितु वार्तया सहैव वयं प्रियजनं द्रष्टुम् अपि सक्षमाः। अपि च ईमेल- फेसबुक-व्हाटसएप-माध्यमैः वार्ता सुकरा भवति । अस्य माध्यमेन गमनागमनार्थ शीघ्रमेव जना: सरलताया वाहनं प्राप्नुवन्ति । यदि कदापि वयं मार्ग विस्मरामः तदा उचितं मार्ग प्रदर्शयितुम् अपि इदम् श्रेयस्करम् । नं केवलमेतदेव अपितु एतत् यन्त्रं विभिन्नाभिः क्रीडाभि: मनोरञ्जनं चापि करोति, अतः बालाः वृद्धा, युवकाः सर्वे एव एतस्य यन्त्रस्य दासाः अभवन्। अधुना तु इदं यन्त्रं मित्रं, विद्यालयः, मार्गदर्शक: च सर्वमपि अभवत् ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) वर्तमानयुग्स्य जीवनम् किं वर्तते ?
(ii) के सरलतया वाहनं प्राप्नुवन्ति ?
(iii) एतत् यन्त्रं काभिः मनोरञ्जनं चापि करोति ?
उत्तरत:
(i) चलभाषियन्त्रम्
(ii) जना:
(iii) विभिन्नक्रीडाभिः ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)

(i) अद्य चलभाषियन्त्रेण का प्रभाविता वर्तते
(ii) अधुना वार्ता कै: सुकरा भवति ?
(iii) के एतस्य यन्त्रस्य दासाः अभवन् ?
उत्तरत:
(i) अद्य चलभाषियन्त्रम् अस्माकं जीवनशैली पूर्णतया प्रभाविता वर्तते ।
(ii) अधुना वार्ता ईमेल- फेसबुक-व्हाटसएप-माध्यमैः सुकरा भवति ।
(iii) बालाः, वृद्धाः, युवकाः सर्वे एवं एतस्य यन्त्रस्य दासा अभवन्।

इ. उपयुक्तं शीर्षकं – अस्य अनुच्छेदस्य कृते एकं समुचितं शीर्षकं लिखत । (1 × 1 = 1)
उत्तरत:
उपयुक्तं शीर्षकं- ‘चलभाषियन्त्रं’

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) ‘करोति’ इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) यन्त्रं
(ख) अनेन
(ग) इदम्
(घ) चापि
उत्तरत:
(क) यन्त्रं

(ii) ‘सुकरा’ इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत् ।
(क) वार्ता
(ख) दासाः
(ग) सक्षम:
(घ) सर्वम्
उत्तरत:
(क) वार्ता

(iii) ‘हितकरम्’ इत्यस्य पदस्य कः पर्यायः अत्र आगत: ?
(क) कल्याण
(ख) श्रेयस्करम्
(ग) लाभं
(घ) हितं
उत्तरत:
(ख) श्रेयस्करम्

(iv) अनुच्छेदे ‘कठिनतया’ पदस्य कः विपर्ययः आगतः ?
(क) सरलं
(ख) सरलतया
(ग) सक्षम
(घ) सरला:
उत्तरत:
(ख) सरलतया

खण्ड ‘स्व’ : रचनात्मकं कार्यम्
(15 अङ्काः)

2. भवती रमा। भवत्याः विद्यालये वनमहोत्सवः मानितः । तस्य वर्णनं कुर्वन्त्या स्वमित्रं लतां प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः उचितशब्दैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखतु। (1/2 × 10 = 5)

डी. ए. वी. विद्यालयः
(i) ……….
दिनांक :
प्रिये (ii) ………..
………… (iii) नमस्ते।

ह्यः एव मम विद्यालये वनमहोत्सव : मानितः । सर्वे छात्राः उत्साहिताः (iv) ………… । छात्राः स्व-स्वाध्यापकैः सह पादपानाम् (v) ……….. व्यस्ताः आसन्। मम विद्यालयस्य परिसरः तु (vi) ……….. युक्तः अभवत् । एकादश-द्वादश कक्षाया: छात्राः तु विद्यालयात् बहिः (vii) ………… उभयतः पादपान् (viii) ………….. । सर्वैः अस्माकं विद्यालयस्य छात्राणां प्रयासस्य (ix) ………… कृता। यदि सर्वे विद्यालयाः एवं कुर्युः तर्हि सर्वत्र (x) ………. स्यात् ।
तव अभिन्ना सखी
रमा

मञ्जूषा
हरीतिमा, आसन्, प्रयागतः, प्रशंसा, आरोपितवन्तः, लते, मार्गम्, पादपैः, आरोपणे, सस्नेहम्
उत्तरत:
डी. ए. वी. विद्यालयः
(i) प्रयागतः
दिनांक :
प्रिये (ii) लते
सस्नेहम् (iii) नमस्ते।

ह्यः एव मम विद्यालये वनमहोत्सव : मानितः । सर्वे छात्राः उत्साहिताः (iv) आसन् । छात्राः स्व-स्वाध्यापकैः सह पादपानाम् (v) आरोपणे व्यस्ताः आसन्। मम विद्यालयस्य परिसरः तु (vi) पादपैः युक्तः अभवत् । एकादश-द्वादश कक्षाया: छात्राः तु विद्यालयात् बहिः (vii) मार्गम् उभयतः पादपान् (viii) आरोपितवन्तः । सर्वैः अस्माकं विद्यालयस्य छात्राणां प्रयासस्य (ix) प्रशंसा कृता। यदि सर्वे विद्यालयाः एवं कुर्युः तर्हि सर्वत्र (x) हरीतिमा स्यात् ।
तव अभिन्ना सखी
रमा

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions - 1
मञ्जूषा
कृषक:, वृषभौ, यष्टिकाम्, श्रान्तौ, अपि, हलकार्यम्, आकाशः, भूमिः, शुष्का, करोति, बीजानि, स्त:, वपति, ग्रीष्मकालः, परिश्रमम्, हस्तयो:, एकाकी, अस्ति
उत्तरत:
चित्रवर्णनम् –
(1) अस्मिन् चित्रे एक: कृषकः द्वौ वृषभौ ग्रहीत्वा हलकार्यं करोति ।
(2) कृषकः क्षेत्रे बीजानि वपति ।
(3) कृषकस्य हस्तयोः एका यष्टिकाम् अस्ति ।
(4) ग्रीष्मकाले भूमिः शुष्का भवति ।
(5) वृषभौ श्रान्तौ स्तः ।

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत- ( रचनात्मकानि पञ्चवाक्यानि चिन्तनात्मक प्रश्नः)
“स्वच्छभारत-अभियानम्”..
मञ्जूषा
स्वच्छतायाः, प्रधानमन्त्री नरेन्द्रमोदी, अवकरपात्रेषु, उद्घाटनम्, इतस्ततः, उद्यानेषु, मार्गेषु, क्षिपन्ति, स्वच्छताभियानम्, अवकराणि, अस्माकं कर्त्तव्यम्, वातावरणं शुद्धम्, स्वस्थाः, सामाजिककार्यम् ।
उत्तरत:
अनुच्छेद लेखनम्-
(1) प्रधानमन्त्री नरेद्रमोदी स्वच्छतायाः अभियानम् अचालयत्।
(2) उद्यानेषु मार्गेषु च जनाः इतस्ततः अवकराणि क्षिपन्ति ।
(3) अस्माकं कर्त्तव्यं यत् अवकरपात्रेषु एवं अवकराणि क्षिपेयुः ।
(4) स्वच्छतया वातावरणं शुद्धं भवति सर्वे च स्वस्थाः भवन्ति ।
(5) स्वच्छताभियानम् एकं सामाजिक कार्यम् अस्ति।

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

4. अधोलिखितानि वाक्यानि संस्कृत भाषया अनूद्य लिखत – (केवलं वाक्यपञ्चकम् ) (1 × 5 = 5)

(1) माता खाना पकाती है।
(2) हम सब संस्कृत पढ़ते हैं ।
(3) कल विद्यालय का अवकाश रहेगा।
(4) कल तुम कहाँ थे ?
(5) तुम सब कलम से लिखो ।
(6) बच्चा कुत्ते से डरता है ।
(7) क्या मैं अन्दर आऊँ ?

1. Mother cooks food.
2. All of us study Sanskrit.
3. Tomorrow the school will remain closed.
4. Where were you yesterday?
5. All of you write with pen.
6. The child is scared of dog.
7. May I come in ?
उत्तरत:
संस्कृत भाषायां अनुवाद-
(1) माता भोजनं पचति ।
(2) वयं (सर्वे) संस्कृत पठामः ।
(3) श्वः विद्यालयस्य अवकाशः भविष्यति ।
(4) ह्यः त्वं कुत्र आसीः ?
(5) यूयं कलमेन लिखत ।
(6) बाल: कुक्कुरात् बिभेति ।
(7) किम् अहम् अन्तः आगच्छानि / प्रविशानि ?

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(25 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) प्रियच्छात्राः अभिनन्दनं भवताम्।
(ii) सन्तोषः एव सत् + निधानम्
(iii) वने मृगाश्चरन्ति
(iv) पापिनाम् + च सदा दुःखम्।
(v) वसन्ते सर्वत्र उत् + लासः दृश्यते।
उत्तरत:
सन्धि / सन्धिविच्छेदः
(i) प्रियः + छात्रा:
(ii) सनिधानम्
(iii) मृगाः + चरन्ति
(iv) पापिनाञ्च
(v) उल्लासः ।

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) मानव जीवनम् चतुर्षु आश्रमेषु विभक्तम् ।
(क) मानवं जीवनं
(ख) मानवस्य जीवनम्
(ग) मानवाय जीवनम्
(घ) मानवानां जीवनं
उत्तरत:
(ख) मानवस्य जीवनम्

(ii) गृहस्थाश्रमे जनाः यथाशक्ति धनम् अन्नम् च।
(क) शक्तिं अनतिक्रम्य
(ख) शक्ति अनतिक्रम्य
(ग) शक्त्या अनतिक्रम्य
(घ) शकत्येन अनीतक्रम्य
उत्तरत:
(क) शक्तिं अनतिक्रम्य

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

(iii) पीताम्बरः कुत्र न वसति ?
(क) पीतम् अम्बराणि यस्य सः
(ख) पीतानि अम्बरं यस्य सः
(ग) पीतम् अम्बरम् यस्य सः
(घ) पीतं अम्बरं
उत्तरत:
(ग) पीतम् अम्बरम् यस्य सः

(iv) माता च पिता च आगच्छतः।
(क) मातापितरौ
(ख) मातापितां
(ग) पितामाते
(घ) पितामातरौ
उत्तरत:
(क) मातापितरौ

(v) जना: देशस्यभक्तान् पूजयन्ति ।
(क) देशभक्तं
(ख) देशभक्तान्
(ग) देशभक्ताः
(घ) देशभक्ताम्
उत्तरत:
(ख) देशभक्तान्।

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं विकल्पेभ्यः चित्वा वाक्यानि उत्तरपुस्तिकायां लिखत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) अद्ये! बालकस्य ईदृशी निपुणता
(क) निपुण + ता
(ख) निपुण + तल्
(ग) निपुण + तां
(घ) निपुण + आ
उत्तरत:
(ख) निपुण + तल्

(ii) छात्रासु प्रथमा का आसीत् ।
(क) प्रथम + आ
(ख) प्रथम + टाप्
(ग) प्रथमा + टाप्
(घ) प्रथ + मा
उत्तरत:
(ख) प्रथम + टाप्

(iii) न अस्ति सर्व अमरत्वं हि कस्यचिद् प्राणिनः भुवि ।
(क) अमर + त्व
(ख) अमर + त्वं
(ग) अमर + ता
(घ) अमरं + त्व
उत्तरत:
(क) अमर + त्व

(iv) चावकिः आस्तिक : न आसीत् ।
(क) अस्ति + ठक्
(ख) अस्ति + कः
(ग) अस्ति + इक्
(घ) अस्तिक + :
उत्तरत:
(क) अस्ति + ठक्

(v) मम भ्रात: गुण + मतुप् अस्ति ।
(क) गुणवन्तः
(ख) गुणमान्
(ग) गुणवान्
(घ) गुणवत्
उत्तरत:
(ग) गुणवान् ।

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

8. मयूर-पिकौ परस्परं वार्तालापं कुरुत: । मयूरः कर्तृवाच्ये पिकः कर्मवाच्ये वदति । वाच्यानुसारं रिक्तस्थानानि पूरयत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) मयूर : – पिक ! त्वं मधुरं
(क) कूजति
(ख) कूजसि
(ग) कूजत:
(घ) कूजन्ति
उत्तरत:
(ख) कूजसि

(ii) पिक:- मयूर ! त्वया वर्षर्तौ सुन्दरं
(क) नृत्यति
(ख) नृत्यते
(ग) नृत्यामि
(घ) नृत्यन्ति
उत्तरत:
(ख) नृत्यते

(iii) मयूर :- केवलं वसन्तकाले मधुरेण स्वरेण कूजसि ।
(क) त्वाम्
(ख) त्वम्
(ग) त्वयि
(घ) त्वया
उत्तरत:
(ख) त्वम्

(iv) पिक:- मयूर ! आम् ! मयावसन्त काले मधुर स्वरेण
(क) कूजसि
(ख) कूज्यते
(ग) कूजामि
(घ) कूजन्ति
उत्तरत:
(ख) कूज्यते

9. अधः क्रीड़ास्थलस्य समयसारिणी लिखत । (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)

(i) प्रात: 6:45 ………… वादने प्रशिक्षकः तत्र आगच्छति ।
(ii) प्रात: 7:00 ………….. वादने क्रीडकाः आगच्छन्ति ।
(iii) प्रात: 7:30 …………… वादने तैः पादकन्दुकस्य अभ्यास क्रियते।
(iv) प्रात: 11:15 …………. वादने सर्वे स्वगृहं गच्छन्ति ।
(v) अहं 7:45 ………….. वादने विद्यालयं गच्छामि ।
उत्तरत:
(i) पादोन सप्त
(ii) सप्त
(iii) सार्ध सप्त
(iv) सपाद एकादश
(v) पादोन- अष्टवादने ।

10. प्रदत्त विकल्पेभ्यः उचितं अव्ययपदं चित्वा वाक्येषु रिक्त स्थानानि पूरयत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) …………. छात्राः कार्यमग्नाः सन्ति ।
(ii) ………… अनेकानि अन्यानि दर्शनीयानि स्थलानि अपि सन्ति ।
(iii) जरा व्यायामस्य सकाशं ………….. न समधिरोहति ।
(iv) यूयम् …………. न भ्रमत।

मञ्जूषा
अत्र, सम्प्रति, सहसा, इतस्तत:
उत्तरत:
(i) सम्प्रति छात्राः कार्यमग्नाः सन्ति ।
(ii) अत्र अनेकानि अन्यानि दर्शनीयानि स्थलानि अपि सन्ति ।
(iii) जरा व्यायामस्य सकाशं सहसा न समधिरोहति ।
(iv) यूयम् इतस्तत: न भ्रमत।

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

11. अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धं वर्तते । शुद्धम् पदं चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत । (1 × 3 = 3)
(केवलं प्रश्नत्रयम्)

(i) अत्र मृगौ चरन्ति ।
(क) मृग:
(ख) मृगाः
(ग) मृगान्
(घ) मृगं
उत्तरत:
(ख) मृगाः

(ii) अहम् दुग्धं पिबसि ।
(क) वयम्
(ख) आवाम्
(ग) त्वम्
(घ) माम्
उत्तरत:
(ग) त्वम्

(iii) ह्य: होली पर्व अस्ति
(क) आसीत्
(ख) सन्ति
(ग) अस्तु
(घ) स्तः
उत्तरत:
(क) आसीत्

(iv) एतत् मार्ग: विषमः अस्ति ।
(क) अयम्
(ख) एषः
(ग) इदम्
(घ) एते
उत्तरत:
(ख) एषः

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम् । किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् । अन्येद्युः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते । आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)

(क) कः चौर्याभियोगे चौरं न्यायालयं नीतवान् ?
(ख) न्यायाधीशः कः आसीत् ?
(ग) कौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ ?
उत्तरत:
(क) आरक्षी
(ख) बंकिमचन्द्रः
(ग) तौ (आरक्षी चौर च)

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(क) कर्मचारी समागत्य किम् न्यवेदयत् ?
(ख) कः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।
(ग) तस्य मृतशरीरं कम् निकषा वर्तते ?
उत्तरत:
(क) कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते । आदिश्यतां किं करणीयं इति ।
(ख) न्यायाधीश: आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।
(ग) तस्य मृतशरीरं राजमार्ग निकषा वर्तते ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ ‘ इति वाक्ये कः अव्यय पदं प्रयुक्तं ?
(ख) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ इति वाक्ये किं क्रियापदं प्रयुक्तं ?
(ग) ‘तत्रभवः’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तरत:
(क) अन्येद्युः,
(ख) आदिष्टवान्,
(ग) तत्रत्यः ।

13. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
एकेन राजहंसेन या शोभा सरसो भवेत् ।
न सा बकसहस्त्रेण परितस्तीरवासिना ।।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1⁄2 × 2 = 1)

(क) सरसः शोभा केन भवति ?
(ख) बकसहस्त्रेण कस्य शोभा न भवति ?
(ग) सरसः परित: के वसन्ति ?
उत्तरत:
(क) राजहंसेन
(ख) सरसः
(ग) वकाः।

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) एकेन राजहंसेन कस्य शोभा भवति ?
(ख) परितः तीरवासिना बकसहस्त्रेण सरसः का न भवति
(ग) बकाः कुत्र वसन्ति ?
उत्तरत:
(क) एकेन राजहंसेन सरस : शोभा भवति ।
(ख) परितः तीरवासिना वकसहस्त्रेण सरसः शोभान भवति ।
(ग) बकाः सरसः परितः तटे वसन्ति ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘सरस: ‘शोभा राजहंसेन भवति’ अत्र किं कर्तृपदं प्रयुक्तं ?
(ख) ‘तडागस्य’ पदस्य अत्र कः पर्यायः प्रयुक्तः ?
(ग) ‘सरसः शोभा’ अत्र किं विशेषण पदं ?
उत्तरत:
(क) राजहंसेन
(ख) सरसः
(ग) शोभा ।

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)

व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः ।
शृगालः – व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा ।
जम्बुकः – स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम् । व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति ।
व्याघ्रः – शृगाल! यदि त्वं मुक्त्वा यासि तदा वेलाप्यवेला स्यात् ।
जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम् । सः व्याघ्रः तथाकृत्वा काननं ययौ । शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ?

प्रश्ना:

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2=1)

(क) त्वम् कस्मात् विभेषि ?
(ख) गूढप्रदेशम् कः अगच्छत् ?
(ग) कम् निजगले बद्ध्वा चल सत्वरम् ?
उत्तरत:
(क) मानुषात्
(ख) जम्बुक:
(ग) जम्बुकं ।

आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) शृगालः व्याघ्रं किम् अकथयत् ?
(ख) ‘यदि त्वं मुक्त्वा यासि तदा वेलाप्यवेला स्यात्’ इति कः अकथयत् ?
(ग) कम् अत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा ?
उत्तरत:
(क) शृगालः व्याघ्रं अकथयत्- ‘ त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि विभेषि ।
(ख) ‘यदि त्वं मुक्त्वा यासि तदा वेलाप्यवेलास्यात्’ इति व्याघ्र अकथयत् ।
(ग) माम अत्तुं कलहायमानौ चपेटया प्रहस्ती दृष्टा ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘हस्ते प्राणान्नीत्थ’ इति पदस्य अत्र कः पर्यायः प्रयुक्तम् ?
(ख) ‘यत्रास्ते’ पदे सन्धिं विच्छेदं कुरु ?
(ग) ‘दृष्टा’ पदे कः प्रत्ययः प्रयुक्तम् ?
उत्तरत:
(क) गृहीतकर जीवितः
(ख) यत्र + आस्ते
(ग) क्त ।

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

15. स्थूल पदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)

(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म !
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती ।
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।
(घ) त्वं मानुषात् विभेषि ।
(ङ) अहो ! हृदयग्राही स्पर्शः ।
उत्तरत:
(क) तत्र कः नाम राजपुत्रः वसति स्म ?
(ख) बुद्धिमती कया पुत्रौ प्रहतवती ?
(ग) कं दृष्ट्वा धूर्तः शृगालः अवदत् ?
(घ) त्वं कस्मात् विभेषि ?
(ङ) अहो ! कीदृश: स्पर्श : ?

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयत्- (1 × 4 = 4)

गुणं वेत्ति न वेत्ति निर्गुणो,
बलं वेत्ति न वेत्ति निर्बलः,
पिको वसन्तस्य गुणं न वायसः,
करीच सिंहस्य बलं न मूषकः ।।

अन्वयः – गुणी (i) ……….. वेत्ति, निर्गुण: (गुणं) न वेत्ति, (ii) ……….. वेत्ति, निर्बल: (बलं) न वेत्ति, (iii) ……….. गुणं पिक: (वेत्ति) वायसः न ( वेत्ति ) (iv) ……….. बलं री (वेत्ति), मूषकः न ।
मञ्जूषा
वसन्तस्य, गुणं, सिंहस्य, बली
उत्तरत:
अन्वयः – गुणी (i) गुणं वेत्ति, निर्गुण: (गुणं) न वेत्ति, (ii) बली वेत्ति, निर्बल: (बलं) न वेत्ति, (iii) वसन्तस्य गुणं पिक: (वेत्ति) वायसः न ( वेत्ति ) (iv) सिंहस्य बलं री (वेत्ति), मूषकः न ।

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1 × 4 = 4)
श्लोक : – संपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ।।
भावार्थ:-सज्जनानां सङ्गति: (i) ……… कथ्यते। महापुरुषाणां सम्पन्नौ विपत्तौ च (ii) ………… भवति । यथ सूर्यः उदिते सति रक्तवर्णः भवति । अस्तकाले च रक्तः भवति । (iii) ………… सर्वदैव समप्रकृतयः भवन्ति । ते सुख – दुखे (iv) ……… भवति तेषां विकारं न भवन्ति ।

मञ्जूषा – समानैव, समरूपता, सत्सङ्गति, महान्तः जनाः ।
उत्तरत:
भावार्थ:
भाव:- सज्जनानां सङ्गति: (i) सत्सङ्गतिः कथ्यते । महापुरुषाणां सम्पन्तौ विपत्तौ च (ii) समरूपता भवति । यथ सूर्यः उदिते सति रक्तवर्णः भवति। अस्तकाले च रक्तः भवति । (iii) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति । ते सुख – दुखे (iv) समानैव भवति तेषां विकारं न भवन्ति ।

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)

(क) वानराः तं तुदन्ति स्म ।
(ख) सर्वे प्राणिनः इदं दृष्ट्वा सिंह राज्ञः पदाय अयोग्य मन्यन्ते ।
(ग) एक : सिंह सुप्यति स्म ।
(घ) सर्वेषां प्राणिनां यथासमयं महत्त्वं विद्यते ।
(ङ) यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्।
(च) कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एवं राजेति इति निश्चितम् अभवत्
(छ) सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति ।
(ज़) तत: प्रकृतिमाता प्रविशति ।
उत्तरत:
(क) एकः सिंहः सुप्यति स्म ।
(ख) वानराः तं तुदन्ति स्म ।
(ग) सर्वे प्राणिनः इदं दृष्ट्वा सिंह राज्ञः पदाय अयोग्यं मन्यते ।
(घ) कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एव राजेति इति निश्चितं अभवत् ।
(ङ) सर्वेप्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति ।
(च) ततः प्रकृतिमाता प्रविशति ।
(छ) सर्वेषां प्राणिनां यथासमयं महत्त्व विद्यते ।
(ज़) यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम् ।

CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions

18. अधोलिखितानां कथनानां पर्यायपदं लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) गात्राणं सुविक्तानां व्यायामेन सम्भवति।
(क) शारीरिकं सौष्ठवम्
(ख) शारीरिकं सौन्दर्य
(ग) कान्तिः
(घ) सौन्दर्यं
उत्तरत:
(क) शारीरिकं सौष्ठवम्

(ii) वलबता अविदग्धम् अपि भोजनं पच्यते ।
(क) पक्वम्
(ख) अपक्वम्
(ग) पथ्यं
(घ) अपथ्यं
उत्तरत:
(ख) अपक्वम्

(iii) व्यायामात् शरीरस्य कान्ति: उपचयः भवति ।
(क) अभिवृद्धिः
(ख) श्रमः
(ग) सर्वतः
(घ) परितः
उत्तरत:
(क) अभिवृद्धिः

(iv) पुम्भिः आत्महितैषिभिः सर्वेषु ऋतुषु अहरहः व्यायामः कर्त्तव्यः ।
(क) पुष्टिः
(ख) पुरुषैः
(ग) जनस्य
(घ) जनै:
उत्तरत:
(ख) पुरुषैः