CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 6 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)

अयं संसारः कर्मभूमिः अस्ति । अस्मिन् संसारे यावन्तः जनाः जन्म गृह्णन्ति तेषां पृथक्-पृथक् कर्तव्यानि भवन्ति । एतानि कर्तव्यानि अनेकविधानि भवन्ति । कानिचिद् व्यक्तिगतानि कानिचित् पारिवारिकाणि, कानिचित् सामाजिकानि कानिचित् नित्यानि भवन्ति, कानिचित् नैमित्तिकानि । एतेषां सर्वेषां कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय, देशहिताय च परमावश्यकं भवति । परमद्य जनेषु कर्तव्यपालनं प्रति न कापि निष्ठा । कोऽपि श्रमेण सत्यतया निष्ठया च कार्यं कर्तुं न वाञ्छति । अल्पेन एव प्रयासेन ते कार्यसिद्धिम् इच्छन्ति। ते केवलं स्वार्थसाधनं कर्तुम् इच्छन्ति । अधिकाराय तु सर्वे प्रयतन्ते परं कर्तव्यं प्रति कोऽपि ध्यानं न ददाति। सत्यमेतद् यावद् वयं परिश्रमपूर्वकं, श्रद्धापूर्वकं च स्वकर्तव्यानि न पालयामः तावद् देशस्य समाजस्य च उन्नतिः भवितुं न अर्हति। कर्तव्यपालनम् एव आत्मनः देशस्य च उन्नतेः मूलमन्त्रम् अस्ति ।

प्रश्ना:

अ. एकपदेनं उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(i) कर्माणि कति विधानि भवन्ति ?
(ii) उन्नतेः मूलमन्त्रं किम् अस्ति ?
(iii) कस्मै तु सर्वे प्रयतन्ते परं कर्त्तव्यं प्रति कोऽपि ध्यानं न ददाति ?
उत्तरत:
(i) अनेकविधानि
(ii) कर्तव्यपालनं
(iii) अधिकाराय।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)

(i) कर्तव्यपालनं किमर्थम् आवश्यकम् ?
(ii) देशस्य उन्नतिः कदा भवितुम् अर्हति ?
(iii) केषु कर्त्तव्यपालनं प्रति कोऽपि निष्ठा न सन्ति ?
उत्तरत:
(i) कर्तव्यपालनं मनुष्यस्य व्यक्तिगतहिताय, देशहिताय च परमावश्यकं भवति ।
(ii) आत्मनः कर्तव्यपालनेन एव देशस्य उन्नतिः भवितुम् अर्हति।
(iii) जनेषु कर्त्तव्यपालनं प्रति कोऽपि निष्ठा न सन्ति ।

इ. उपयुक्तं शीर्षकं – अस्य अनुच्छेदस्य कृते एकं उपयुक्तं शीर्षकं लिखत । (1 × 1 = 1)
उत्तरत:
उपयुक्तं शीर्षकं – कर्तव्यपालनं / कर्तव्यनिष्ठा ।

ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) ‘ते केवलं स्वार्थसाधनं कर्तुम् इच्छन्ति’ अत्र ‘ते’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) संसाराय
(ख) देशहिताय
(ग) जनेभ्यः
(घ) जनाय
उत्तरत:
(ग) जनेभ्यः

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

(ii) ‘प्रयासेन’ इति पदस्य विशेषणपदं चित्वा लिखत ।
(क) निष्ठा
(ख) अल्पेन
(ग) सत्यता
(घ) आस्था
उत्तरत:
(ख) अल्पेन

(iii) ‘एतानि कर्तव्यानि अनेकविधानि भवन्ति ‘ अत्र किं विशेष्यपदम् ?
(क) भवन्ति
(ख) कर्तव्यानि
(ग) अनेक
(घ) अनेकाः
उत्तरत:
(ख) कर्तव्यानि

(iv) ‘अयं संसार: कर्म भूमिः अस्ति’ इति वाक्ये अस्ति पदस्य किं कर्तृ पदं प्रयुक्तं ?
(क) अयं
(ख) संसार:
(ग) कर्मभूमिः
(घ) अस्ति
उत्तरत:
(ग) कर्मभूमिः

खण्ड ‘रव’ : रचनात्मकं कार्यम्
(15 अङ्काः)

2. ‘वृद्धाश्रमे गमनम्’ इति विषये मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पुनः लिखत । (1/2 × 10 = 5)

हर्षनगरम् (i)……….
तिथि : ………….
प्रिय मित्र प्रशान्त !
अत्र सर्वं कुशलम्। तत्रापि कुशलं (ii) ………….. । मित्र ! समाजसेवा जीवनस्य अभिन्नः भागः भवितव्यः । अतः यः अहम् अध्यापकेन सहपाठिभिः च सह एकं (iii) ………….. अगच्छम्। तत्र अनेके (iv) ……….. निवसन्ति। वयं तेभ्यः उपहाररूपेण दातुं फलानि, औषधी: वस्त्राणि च अनयाम | ते अस्मभ्यम् अनेकाः सुन्दराः कथाः अकथयन् गीताः च अश्रावयन्। ते अतीव (v) ………….. अभवन्। वयं सम्पूर्णं दिवसं तत्रैव सानन्दं (vi) …………… अकुर्म । अन्ते सर्वैः छात्रैः वृद्धानां चरणस्पर्शं कृतं तैः च आशिषः प्रदत्ताः। अयं दिवसः एक: (vii) …………. दिवसः सञ्जातः । स्वपितृभ्यां मम (viii) ………… निवेदनीयाः । पत्रोत्तरं (ix) …………… अपेक्षितम् ।
तव (x) …………..
हर्षवर्धन :

मञ्जूषा
प्रणामाः, प्रसन्नाः, अविस्मरणीयः, दिल्लीनगरतः, कामये, व्यतीतं, अभिन्नमित्रम्, वृद्धाश्रमम्, वृद्धाः, शीघ्रम् ।
उत्तरत:
हर्षनगरम् (i) दिल्लीनगरतः
तिथि : ………….
प्रिय मित्र प्रशान्त !
अत्र सर्वं कुशलम्। तत्रापि कुशलं (ii) कामये । मित्र ! समाजसेवा जीवनस्य अभिन्नः भागः भवितव्यः । अतः यः अहम् अध्यापकेन सहपाठिभिः च सह एकं (iii) वृद्धाश्रमम् अगच्छम्। तत्र अनेके (iv) वृद्धा: निवसन्ति। वयं तेभ्यः उपहाररूपेण दातुं फलानि, औषधी: वस्त्राणि च अनयाम | ते अस्मभ्यम् अनेकाः सुन्दराः कथाः अकथयन् गीताः च अश्रावयन्। ते अतीव (v) प्रसन्नाः अभवन्। वयं सम्पूर्णं दिवसं तत्रैव सानन्दं (vi) व्यतीतम् अकुर्म । अन्ते सर्वैः छात्रैः वृद्धानां चरणस्पर्शं कृतं तैः च आशिषः प्रदत्ताः। अयं दिवसः एक: (vii) अविस्मरणीयः दिवसः सञ्जातः । स्वपितृभ्यां मम (viii) प्रणामाः निवेदनीयाः । पत्रोत्तरं (ix) शीघ्रम् अपेक्षितम् ।
तव (x) अभिन्नमित्रम्।
हर्षवर्धन :

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions - 1
मञ्जूषा
नगरस्य, स्तः, भवनानि, बालौ, उड्डयन्ति, पादपान्, पर्यावरणं, प्रसन्नौ, पक्षिणः, जलपात्रम्, शुद्धम्, भवेयुः, बाला, जांगरुका:, सर्वत्र
उत्तरत:
चित्रवर्णनम् –
(1) अस्मिन् चित्रे द्वौ बालौ पादपान् पश्यतः।
(2) पक्षिणः गगने उड्डयन्ति ।
(3) पर्यावरणम् प्रति सर्वान् जनान् जागरूकाः भवेयुः ।
(4) वृक्षारोपणं कुर्वन – द्वौ वालौ प्रसन्नौ स्तः ।
(5) नगरस्य भवनानि रमणीयानि प्रतीयते ।

अथवा

‘अस्माकं पुस्तकालयः’ इति विषयम् अधिकृत्य मञ्जूषापदानां सहायतया संस्कृतेन पञ्चवाक्यानि एकम् अनुच्छेदं लिखत ।
मञ्जूषा
सुन्दरं भवनम् विविधविषयाणाम्, अनेकानि, पुस्तकानि क्रमेण, पुस्तकालयकक्षः, ज्ञानवर्धकानि, विषयसम्बद्धानि, मनोरञ्जकानि, विविधाः, पालिका:, आसन्दिकाः, उपविशन्ति, जनाः, शान्त्या
उत्तरत:
अनुच्छेद लेखनम्-
(1) मम विद्यालये एक : विशाल: पुस्तकालयकक्षः अस्ति ।
(2) पुस्तकालये अनेकानि पुस्तकानि सन्ति।
(3) अत्र जना: आसन्दिकासु उपविशन्ति ।
(4) पुस्तकालये ज्ञान वर्द्धकानि, मनोरञ्जकानि, विविधानि च पुस्तकानि सन्ति ।
(5) पुस्तकालयस्य सुन्दरं भवनं दर्शनीयं अस्ति ।

4. अधोलिखितानि वाक्यानि संस्कृतभाषाया अनूद्य लिखत- (1 × 5 = 5)
( 1 ) In the village lot of food, milk and juice are available.
गाँव में बहुत अधिक मात्रा में भोजन, दूध और रस प्राप्त होता है ।

(2) Villegers are hard work in by nature.
ग्रामवासी स्वभाव से परिश्रमी होते हैं।

( 3 ) A River is also flowing over there.
वहाँ पर एक नदी भी बह रही है।

(4) There was a rishi kumar named Hareet.
वहाँ हारीत नाम का एक ऋषि कुमार था।

(5) Our country India is mainly an agriculture based country.
हमारा देश भारत मुख्य रूप से कृषि पर आधारित है।

( 6 ) It will rain for Sure.
आज निश्चय ही वर्षा होगी।

(7) The whole world of family for great Persons.
उदारचरित वालों के लिए यह संसार कुटुम्ब के समान है।
उत्तरत:
संस्कृत भाषायां अनुवाद-
(1) ग्रामे भोजनाय प्रभूतम् अन्नम्, दुग्धं, इक्षुरसांसि च मिलन्ति।
(2) ग्रामीणाः जनाः परिश्रमशीलाः भवन्ति।
(3) एका नदी अपि तत्र प्रवहति ।
(4) पुरा तत्र हारीतो नामक ऋषिकुमारः आसीत् ।
(5) अस्माकं भारतदेशः कृषिप्रधानः अस्ति ।
(6) अद्य नूनमेव वृष्टिः भविष्यति ।
(7) उदारचरितानां तु वसुधैव कुटुम्बकम्।

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(25 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) आशान्वितः भवत्समीपम् आगतोऽस्मि ।
(ii) रावणस्तु जगच्छत्रुः आसीत् ।
(iii) सम् + जयः धृतराष्ट्रस्य सारथिः आसीत्।
(iv) मानवः जगत् + ईश्वरे विश्वसिति ।
(v) अक्षर : व्यक्ति: पदच्छेदस्तु सुस्वरः ।
उत्तरत:
(i) आगतः + अस्मि
(ii) रावण: + तु
(iii) सञ्जयः
(iv) जगदीश्वरे
(v) पद + छेदस्तु ।

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)
(केवलं प्रश्नचतुष्टयम्)

(i) प्रपश्यामि ग्रामान्ते निर्झर-नदी-पय:-पूरम्।
(क) ग्राम अन्ते
(ख) ग्रामस्य अन्ते
(ग) ग्रामे अन्ते
(घ) गामात् अन्ते
उत्तरत:
(ख) ग्रामस्य अन्ते

(ii) किं द्वयोरप्येकमेव प्रतिवचनम् ।
(क) वचनं वचने प्रति
(ख) वचनम् वचनम् प्रति
(ग) वचने वचनं इति
(घ) वचनात् वचनं प्रति
उत्तरत:
(ख) वचनम् वचनम् प्रति

(iii) ततः प्रविशतः तापसौ कुशलवौ ।
(क) कुश: च लव: च
(ख) लवे च कुशे च
(ग) लवयो: च कुशयो: च
(घ) कुशौ लवौ
उत्तरत:
(क) कुश: च लव: च

(iv) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि
(क) पुत्रदैन्यं
(ख) पुत्रदैन्यः
(ग) दीनपुत्रः
(घ) पुत्रेण दैन्यं
उत्तरत:
(क) पुत्रदैन्यं

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

(v) राजासनं खलु एतत् ।
(क) राज्ञोः आसनम्
(ख) राजनि आसनम्
(ग) राज्ञः आसनम्
(घ) राजा आसनम्
उत्तरत:
(ग) राज्ञः आसनम्

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं विकल्पेभ्यः चित्वा वाक्यानि उत्तरपुस्तिकायां लिखत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) मम मातामह + ङीप् मुम्बई नगरे निवसति ।
(क) मातामहे
(ख) मातामहि
(ग) मातामही
(घ) मातामाही
उत्तरत:
(ग) मातामही

(ii) एष: दरिद्रोऽपि सदाचार + मतुप् भवति ।
(क) सदाचारमान्
(ख) सदाचारवान्
(ग) सदाचारमन्तः
(घ) सदाचारवत्
उत्तरत:
(ख) सदाचारवान्

(iii) सेतुनिर्माणम् सामाजिकं कार्यम् अस्ति।
(क) समाज + ढक्
(ख) समाजा + इक्
(ग) सामाज + ठक्
(घ) समाजक + इ
उत्तरत:
(क) समाज + ढक्

(iv) दुष्प्रयुक्ता वाणी मानवस्य पशुत्वं प्रकट यति ।
(क) पशु + त्वं
(ख) पशु + त्व
(ग) पशु + त्वां
(घ) पशु + तु
उत्तरत:
(ख) पशु + त्व

(v) प्राणिनां मूढ़ता निद्रा कथिता ।
(क) मूढ + तल्
(ख) मूढ + क्त
(ग) मूढ + ता
(घ) मूढत + आ
उत्तरत:
(क) मूढ + तल्

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

8. द्वे मित्रे दूरभाषे वार्तालापं कुरुत: । निरुपमा कर्तृवाच्ये वदति, विनीता च कर्मवाच्ये वदति । वाच्यानुसारं रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) निरुपमा – विनीते ! अधुना किं करोषि ?
विनीता – (i) …………. नवीनं पुस्तकं मणिका पठ्यते ।
(क) मया
(ख) मत्
(ग) मयि
(घ) माम्
उत्तरत:
(क) मया

(ii) निरुपमा – कीदृशः संयोगः अहम् अपि (ii) ………. एव पठितुम् उपविशामि ।
(क) मणिका
(ख) मणिकाम्
(ग) मणिका:
(घ) मणिकायाः
उत्तरत:
(ख) मणिकाम्

(iii) कश्चिद् ध्वनिः आगच्छति । कं कार्यक्रमं दूरदर्शने (iii) …………… ?
(क) पश्यसि
(ख) पश्यति
(ग) पश्यामि
(घ) पश्यामः
उत्तरत:
(क) पश्यसि

(iv) विनीता-मया दूरदर्शने वायुपुराण: (iv) …………. दृश्यते ।
(क) कार्यक्रमः
(ख) पठतम्
(ग) लेखनम्
(घ) पठनम्
उत्तरत:
(क) कार्यक्रमः

9. अधोलिखितदिनचर्यायां रिक्तस्थानानि कालबोधकशब्दैः पूर्यन्ताम् । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) सुरेश : प्रतिदिनं 5:00 …………. उत्तिष्ठति ।
(ii) सौरभः सायं 4:15 ……………. क्रीडति ।
(iii) गीता: 7:30 ………….. गीतं गायति ।
(iv) रवि : प्रात: 10:45 …………. विद्यालयं गच्छति ।
(v) सायं 5:15 ………. वादने जनाः चायपानं कुर्वन्ति ।
उत्तरत:
(i) सुरेश : प्रतिदिनं 5:00 पञ्चवादने उत्तिष्ठति ।
(ii) सौरभः सायं 4:15 सपाद चतुर्वादने क्रीडति ।
(iii) गीता: 7:30 सार्ध सप्त वादने गीतं गायति ।
(iv) रवि : प्रात: 10:45 पादोन एकदश वादने विद्यालयं गच्छति ।
(v) सायं 5:15 सपाद पञ्च वादने वादने जनाः चायपानं कुर्वन्ति ।

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

10. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) छात्रा : तथैव कार्यं कुर्वन्ति …………… तेषां गुरवः कथयन्ति ।
(ii) सायं समये ……………… असौ गन्तव्याद दूरे आसीत् ।
(iii) …………… दीपो दिने यथा ।
(iv) वायुः ………….. आयाति ?
मञ्जूषा-यथा, अपि, वृथा, कुतः
उत्तरत:
(i) छात्रा : तथैव कार्यं कुर्वन्ति यथा तेषां गुरवः कथयन्ति ।
(ii) सायं समये अपि असौ गन्तव्याद दूरे आसीत् ।
(iii) वृथा दीपो दिने यथा ।
(iv) वायुः कुत: आयाति ?

11. अधोलिखितवाक्येषु रेखाङ्कित पदम् अशुद्धम् अस्ति । प्रदत्तविकल्पेषु शुद्धम् उत्तरं चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) एते वस्त्राणि जनकस्य अस्ति ।
(क) असि
(ख) सन्ति
(ग) इमानि
(घ) इमं
उत्तरत:
(ग) इमानि

(ii) पुरा आतङ्कवादः अस्माकं देशे न भविष्यति ।
(क) भवति
(ख) आसीत्
(ग) भवन्ति
(घ) अभवत्
उत्तरत:
(ख) आसीत्

(iii) सः अपि जलं वास्यसि ।
(क) पास्यन्ति
(ख) पास्यामि
(ग) पास्यति
(घ) पास्यावाः
उत्तरत:
(ग) पास्यति

(iv) पथिकः बसयानात् हस्तं बहिः न कुर्युः।
(क) पथिकाः
(ख) पथिकौ
(ग) पथिकम्
(घ) पथिकाय
उत्तरत:
(क) पथिकाः

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौर : गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेकां मञ्जूषाम् आदाय पलायिताः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)

(क) चौर: काम् आदाय पलायितः ?
(ख) कः उच्चैः क्रोशितुमारभत ?
(ग) कस्य आरक्षी एव चौरः आसीत् ?
उत्तरत:
(क) मञ्जूषाम्
(ख) चौर:
(ग) ग्रामस्य

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)

(क) रक्षापुरुषः किम् अकरोत् ?
(ख) कदा तस्मिन् गृहे कश्चन् चौर: गृहाभ्यन्तरं प्रविष्टः ?
(ग) वस्तुत: चौर: क: आसीत् ?
उत्तरत:
(क) रक्षापुरुष : अतिथिं चौरोऽयम् इति प्रख्याप्य कारागारे प्राक्षिपत् ।
(ख) रात्रौ तस्मिन् गृहे कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः ।
(ग) वस्तुतः ग्रामस्य आरक्षी एव चौरः आसीत्।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )

(क) ‘चौरोऽयं’ पदे सन्धिविच्छेदं कुरु ?
(ख) ‘स्थाप्य’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
(ग) ‘दत्वा’ इत्यस्य पदस्य अत्र गद्यांशे किम् विलोमपदं प्रयुक्तं ?
उत्तरत:
(क) चौर: + अयं,
(ख) प्रख्याप्य,
(ग) आदाय ।

13. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तपोरस्य पुष्टिः ।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन ।।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)

(क) प्रस्तुत श्लोके कं सम्बोधितं अकरोत् ?
(ख) मालाकार: कै: तरोः पुष्टिं करोति ?
(ग) तपोरस्य पालन-पोषणं तव कया भावेन अभवत् ?
उत्तरत:
(क) मालाकारं
(ख) तोयैः
(ग) करुणया ।

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)

(क) अल्पै: तौयैः अपि भवता कदा तरोः पुष्टिः व्यरचि ?
(ख) वर्षाकाले अपि भवता सरलतया किम् सम्भवं अस्ति ?
(ग) वारिदेन काम् विकिरता इतृ जनयितुम् सा किम् शक्या ?
उत्तरत:
(क) अल्पैः तोयैः अपि भवता भीमभानौ निदाघे तरोः पुष्टिः व्यरिच।
(ख) वर्षाकाले अपि भवता सरलतया ग्रीष्मस्य वृक्षारोपणं सम्भवं अस्ति ।
(ग) वारिदेन वाराम् विकिरता इह जनयितुम सा (पुष्टिः) किम् शक्या ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)

(क) तोयै: अल्पैः अपि करुणया भीम मानौ निदाघे’ अत्र किं विशेषण पदं प्रयुक्तं ?
(ख) ‘मालाकार: तोयैः तरोः पुष्टिं करोति’ अंत्र किं कर्तृपदं प्रयुक्तं ?
(ग) ‘ग्रीष्मकाले’ इत्यर्थे अत्र कः पर्यायः : प्रयुक्त: ?
उत्तरत:
(क) अल्पैः
(ख) मालाकार:
(ग) निदाघे ।

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)

चाणक्यः – भो श्रेष्ठिन् ! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम् । नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति । चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव ।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽिस्म्।
चाणक्यः – भो श्रेष्ठिन् ! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव ।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते ?
चाणक्यः – भवानेव तावत् प्रथमम्।
चन्दनदासः – (कर्णौ पिधाय) शान्तं पापम्, शान्तं पापम् । कीदृशस्तृणानामग्निना सह विरोध: ?
चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षस्य गृहजनं स्वगृहे रक्षसि ।
चन्दनदासः – आर्य! अलीकमेत्। केनाप्यनार्येण आर्याय निवेदितम् ।

प्रश्ना:

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)

(क) इदं राज्यं कस्य अस्ति ?
(ख) केषाम् अग्निना सह विरोध: ?
(ग) कस्मिन् अविरुद्धवृत्तिर्भव ?
उत्तरत:
(क) चन्द्रगुप्तस्य
(ख) तृणानां
(ग) राजानि ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) त्वम् राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं कुत्र रक्षसि ?
(ख) केन आर्याय निवेदितम् ?
(ग) कस्य एव अर्थसम्बन्धः प्रीतिम् उत्पादयति ?
उत्तरत:
(क) त्वम् राजापथ्यकारिणोऽमात्यराक्षस्य गृहजनं स्वगृहे रक्षसि ।
(ख) आर्येण आर्याय निवेदितम् ।
(ग) नन्दस्यैव अर्थसम्बन्धः प्रीतिम् उत्पादयति ।

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(क) ‘पुनरधन्यो’ पदे सन्धिच्छेदं कुरु ?
(ख) ‘नृपानकारकारिणः’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
(ग) ‘सत्यं’ इत्यर्थे अत्र कः विलोमपदम् प्रयुक्तं ?
उत्तरत:
(क) पुन: + धन्यो
(ख) राजापथ्यकारिणः
(ग) अलीकं ।

15. स्थूल पदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)

(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते ।
(ख) अरयः व्यायामिनं न अर्दयन्ति ।
(ग) आत्माहितैषिभिः सर्वदा व्यायामः कर्त्तव्यः ।
(घ) व्यायामं कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते ।
(ङ) रामः लवकुशौ आसनार्धम् उपवेशयति।
उत्तरत:
(क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते ?
(ख) के व्यायामिनं न अर्दयन्ति ?
(ग) कैः सर्वदा व्यायामः कर्त्तव्यः ?
(घ) व्यायामं कुर्वतः कीदृशं भोजनम् अपि परिपच्यते ?
(ङ) रामः कौ आसन्यर्धम् उपवेशयति ?

16. अधोलिखितस्य श्लोकस्य अन्वयः मञ्जूषातः पदानि चित्वा रिक्त स्थानानां पूर्ति कुरुत- (1 × 4 = 4)

दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्
शुचि-पर्यावरणम् ।।
महानगरमध्ये चलदनिशं कालायसचक्रम् ।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्।
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।।
अन्वयः – अत्र जीवितं (i) …………… जातं शुचि पर्यावरणम् (ii) …………. एव शरणं (गच्छसि ) महानगरमध्ये (iii) ………… चलद मनः शोषयत् तनुः पेषयद् कालायसचक्रम् सदा (iv) …………. भ्रमति । अमुना दुर्दान्तैः दशनै: जनग्रसनम् नैव ‘स्यात् ।

मञ्जूषा
अनिशम्, प्रकृतेः, दुर्वहम्, चक्रम्
उत्तरत:
(i) दुर्बहम्
(ii) प्रकृतेः
(iii) अनिशं
(iv) चक्रम्।

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1× 4 = 4)

श्लोकः — यदि पुत्रसहस्त्रं मे, सर्वत्र सममेव मे ।
दीनस्य तु सतः शक्र ! पुत्रस्याभ्यधिका कृपा ।।

भावार्थ:- प्रस्तुतेश्लोकेइन्द्रेणपुष्टासुरभिः उत्तरंदत्तवान्- (i) ………… अपिममपुत्रस्हस्त्रंसमानंएव अस्ति । सर्वेषु (ii) …………… जननी तुल्यवत्सला एव। भो शक्रः । मम दुर्बले पुत्रे सहजैव (iii) ………….. भवति । इदं सत्यम् यत् सर्वत्र मम हृदय बहूनि अपत्यानि प्रति समं प्रतिः सन्ति भवति । अपितु यः दुर्बलः सन्तति भवति तम् प्रति मम मनसि (iv)………… प्रीतिं भवति ।

मञ्जूषा – अभ्यादिका कृपा, अतिशयां, अपत्येषु, सहस्त्राधि केषु पुत्रेषु
उत्तरत:
भावार्थ- प्रस्तुते श्लोके इन्द्रेण पुष्टा सुरभि: उत्तरं दत्तवान्- (i) सहस्त्राधि केषु पुत्रेषु अपि मम पुत्रसहस्त्रं समानं एव अस्ति । सर्वेषु (ii) अपत्येषु_जननी तुल्यवत्सला एव । भो शक्रः । मम दुर्बले पुत्रे सहजैव (iii) अभ्यादिका कृपा भवति । इदं सत्यम् यत् सर्वत्र मम हृदये बहूनि अपत्यानि प्रति समं प्रीतिः सन्ति भवति । अपितु यः दुर्बल: सन्तति भवति तम् प्रति मम मनसि (iv) अतिशयां प्रीतिं भवति ।

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)
(क) अहं प्रकृतिः युष्माकं सर्वेषां जननी ।
(ख) ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति ।
(ग) प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
(घ) भवत्याः परिचयः कः ?
(ङ) मातः । कथयति तु भवती सर्वथा सम्यक् परं वयं भवतीं न जानीमः ।
(च) भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम् ।
(छ) यूयं सर्वे एव मे प्रियाः ।
(ज़) सर्वेषामेव मत्कृते महत्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु।
उत्तरत:
घटनाक्रम-
(क) ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति ।
(ख) भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम् ।
(ग) मातः। कथयति तु भवती सर्वथा सम्यक् परं वयं भवतीं न जानीमः।
(घ) भवत्याः परिचयः कः ?
अहं प्रकृतिः युष्माकं सर्वेषां जननी ।
(च) यूयं सर्वे एव मे प्रियाः ।
(छ) सर्वेषामेव मत्कृते महत्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु।
(ज़) प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।

18. अधोलिखितानां कथनानां पर्यायपदं लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) मां निजगले बद्ध्वा सत्वरम् चल।
(क) शीघ्रं
(ख) शनै:
(ग) आशं
(घ) क्षिप्रां
उत्तरत:
(क) शीघ्रं

(ii) अयि चल बन्धोः ! खगकुलकलरव गुञ्जितवनप्रदेशम् ।
(क) पक्षिध्वनिः
(ख) पक्षिसमूह ध्वनिः
(ग) खगकुलानां कलरवः
(घ) पक्षिकलरवं
उत्तरत:
(ख) पक्षिसमूह ध्वनिः

CBSE Sample Papers for Class 10 Sanskrit Set 6 with Solutions

(iii) वाष्पयानमाल ध्वानम् वितरन्ती संधावति ।
(क) ध्वनिं
(ख) गुञ्जनं
(ग) कलकलं
(घ) निनादं
उत्तरत:
(क) ध्वनिं

(iv) चाकचिक्यजालं जीवितरसहरणम् न कुर्यात्।
(क) कृत्रिम प्रभावपूर्ण जगत्
(ख) कृत्रिम संसारे
(ग) कृत्रिम जगति
(घ) कृत्रिम जालं
उत्तरत:
(क) कृत्रिम प्रभावपूर्ण जगत्