CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 2 allows you to get rid of exam fear and be confident to appear for the exam.

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
  3. अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
  4. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् –

‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)

खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)

1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (10)

भारतवर्षे ‘ग्रीष्म-वर्षा – शरद – हेमन्त – शिशिर वसन्त’ इति षड् ऋतवः भवन्ति । तेषु ‘वसन्तः ‘ ऋतुराजः कथ्यते । वसन्तः ऋतुः फाल्गुने चैत्रमासे च भवति । तदा शैत्यं न्यूनं भवति । वसन्ते द्वौ प्रमुख उत्सवौ स्तः वसन्तोत्सव: होलिकोत्सवश्च । वसन्ते सर्वत् प्रमोदः भवति। सर्वत्र प्रकृति: विविधवर्णैः कुसुमैः हरितपल्लवैश्च सुसज्जिता दृश्यते। आम्रवृक्षे कोकिलस्य मधुरध्वनिः सर्वान् जनान् आकर्षति। सर्वत्र रम्यं वातावरणं भवति । नराः, नार्यः, युवानः, वृद्धाः च समुदं गायन्ति नृत्यन्ति च । धन्यः एषः ऋतुः यः प्रकृतेः अलौकिकीम् अद्भुतां रमणीयां रचनां च प्रदर्शयति । वयं प्रकृतिं नमामः।

प्रश्ना:

अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) ऋतुराजः कः कथ्यते ।
(ii) भारतवर्षे कति ऋतवः भवन्ति ?
(iii) वयम् काम् नमाम: ?
उत्तरत:
(i) वसन्तः
(ii) षड्
(iii) प्रकृतिं।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) वसन्ते कौ प्रमुख उत्सवौ भवतः ?
(ii) वसन्ते सर्वत्रप्रकृति: कीदृशी दृश्यते ?
(iii) वसन्त ऋतुः कदा भवति ?
उत्तरत:
(i) वसन्ते द्वौ प्रमुखौ उत्सवौ स्तः- वसन्तोत्सवः होलिकोत्सवश्च।
(ii) वसन्ते सर्वत्र प्रकृति: विविधवर्णैः कुसुमैः हरितपल्लवैश्च सुसज्जिता दृश्यते ।
(iii) वसन्त ऋतुः फाल्गुने चैत्रमासे च भवति ।

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

इ. उपयुक्तं शीर्षक अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (1 × 1 = 1)
उत्तरत:
शीर्षकं – भारतवर्षे षड् ऋतवः।

ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) ‘नमाम:’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) नरा:
(ख) नार्यः
(ग) वयम्
(घ) त्वम्
उत्तरत:
(ग) वयम्

(ii) अनुच्छेदे ‘पुष्पैः’ इत्यस्य समानार्थकं पदं किं प्रयुक्तम् ?
(क) विविधवर्णै:
(ख) कुसुमैः
(ग) पल्लवैः
(घ) सुमनैः
उत्तरत:
(ख) कुसुमैः

(iii) ‘अधिकम्’ इति पदस्य विलोमपदं किं प्रयुक्तम् ?
(क) न्यूनम्
(ख) शैत्यम्
(ग) रम्यम्
(घ) क्षणम्
उत्तरत:
(क) न्यूनम्

(iv) ‘सर्वत्र रम्यं वातावरणं अस्ति’ अत्र कः अव्ययः प्रयुक्तः ?
(क) रम्यं
(ख) सर्वत्र
(ग) वातावरणं
(घ) पर्यावरणं
उत्तरत:
(ख) सर्वत्र ।

खण्ड ‘व’ : रचनात्मकं कार्यम्
(15 अङ्काः)

2. विवाहविषयकं निमंत्रणं दातुं आचार्यं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयत । (1/2 × 10 = 5)

दिल्लीत:
तिथि: ………..
परमपूज्येषु आचार्यचरणेषु !
सप्रश्रयं प्रणतिराशयः ।
सविनयं …….(i)……. यत् …….(ii)……. वैशाखमासे मम ज्येष्ठभ्रातुः …….(iii)…….. दिल्लीनिवासिनां श्रीशास्त्रिमहाभागाना सौभाग्यकांक्षिण्या …….(iv)……… सह सुनिश्चितः वर्तते। ……..(v)…….. इत: निर्दिष्टदिने मध्याह्ने प्रस्थानं …….(vi)………। भवताम् ……… (vii)…….. गमनं न स्यात् इति कृत्वा ……..(viii)……. इदं पत्रं प्रेषितम्। कृपया ………(ix)…….. अवश्यं वयम् अनुग्राह्याः इति सानुरोधं …….(x)……… ।
भवदीयः शिष्यः
शेखर :
मञ्जूषा
करिष्यति, पूर्वमेव, प्रार्थ्यते, निवेदनं, कन्यया, दर्शन-प्रदानेन, अन्यत्र, आगामिनि, वरयात्रा, पाणिग्रहणसंस्कार:
उत्तरत:
दिल्लीत:
तिथि: ………..
परमपूज्येषु आचार्यचरणेषु !
सप्रश्रयं प्रणतिराशयः ।
सविनयं निवेदनं यत् आगामिनि वैशाखमासे मम ज्येष्ठभ्रातुः पाणिग्रहणसंस्कारः दिल्लीनिवासिनां श्रीशास्त्रिमहाभागाना सौभाग्यकांक्षिण्या कन्यया सह सुनिश्चितः वर्तते। वरयात्रा इत: निर्दिष्टदिने मध्याह्ने प्रस्थानं करिष्यति । भवताम् अन्यत्र गमनं न स्यात् इति कृत्वा पूर्वमेव इदं पत्रं प्रेषितम्। कृपया दर्शन-प्रदानेन अवश्यं वयम् अनुग्राह्याः इति सानुरोधं प्रार्थ्यते
भवदीयः शिष्यः
शेखर : ………

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions - 1
मञ्जूषा
होलिकोत्सव:, जनाः, शिशवः, सर्वत्र, पृष्ठतः, पुष्पमालाः, ललाटे, विविधवर्णानि, चूर्णानि, हर्षिताः, अलङ्कृता:, क्षिपन्ति, क्रीडन्ति, धारयन्ति, नृत्यन्ति
अथवा
‘होलिकोत्सव : इति विषयम् अधिकृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन एकम् अनुच्छेदं लिखत ।
मञ्जूषा
फाल्गुनमासे, जनाः, पूर्णिमायां तिथौ, आयोज्यते, परस्परम्, बालकाः, वृद्धाः युवकाः, युवतयः, रंगप्रेक्षणम्, मिष्ठान्नानि, मिलन्ति, खादन्ति, विस्मृत्य
उत्तरत:
चित्रवर्णनम् –
(1) अस्मिन् चित्रे होलिकोत्सवः आयोज्यते ।
(2) अत्र अस्मिन् पर्वणि परस्परे विविधवर्णानि क्षिपन्ति ।
(3) शिशवः क्रीडन्ति, नृत्यन्ति च ।
(4) सर्वेषां पृष्ठतः पुष्पमालाः सन्ति ।
(5) सर्वे जनाः ललाटे चूर्णानि अलंकृताः सन्ति ।
अथवा
अनुच्छेद लेखनम्-
(1) होलिकोत्सवः फाल्गुनमासे पूर्णिमायां तिथौ आयोज्यते।
(2) अस्मिन् दिवसे जनाः, बालकाः, युवकाः, वृद्धाः, युवतयः च प्रसन्नाः दृश्यन्ते।
(3) बालकाः बालिकाः च परस्परं रंगप्रेक्षणम् सन्ति।
(4) सर्वे भेदभावं विस्मृत्य प्रेमपूर्वकं मिलन्ति ।
(5) वर्णानाम् होली खेलित्वा सर्वे मिष्ठान्नानि खादन्ति ।

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

4. अधोलिखितानी वाक्यानि संस्कृतभाषाया अनूद्य लिखत – (केवलं वाक्यपञ्चकम् ) (1 × 5 = 5)
(1) लिपिक अपना कार्य करता है।
(2) दो किसानों ने खेत जोता था ।
(3) मैं आलस्य का त्याग करूँगा ।
(4) तुम सब मिलकर गीत बोलो।
(5) हमें रोज व्यायाम करना चाहिए ।
(6) सफलता परिश्रम का परिणाम है।
(7) कल मोहन कहाँ था ?

1. Clerk does his work.
2. Two farmers ploughed the filed.
3. I will leave laziness.
4. You recite song together.
5. We should exercise daily.
6. Success is the result of hard work.
7. Where was Mohan yeasterday?
उत्तरत:
संस्कृत भाषायां अनुवाद-
(1) लिपिक: स्वकार्यं करोति ।
(2) द्वौ कृषकौ / कृषीवलौ क्षेत्रम् अकर्षताम् / अयोक्त्रयताम्।
(3) अहम् आलसस्य त्यजिष्यामि ।
(4) यूयम् मिलित्वा गीतं वदत् ।
(5) वयम् नित्यं व्यायामं कुर्याम् ।
(6) सफलता परिश्रमस्य परिणामः फलं अस्ति ।
(7) हृय: मोहनः कुत्र आसीत् ?

खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(25 अङ्काः)

5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) किं जाऽयम् ? पाढतोडप्यनभ्यासः
(ii) किं चानर्धम् ? यदवसरे दत्तम् ।
(iii) सत: असतश्च ज्ञाता नरः पण्डितः ।
(iv) त्वं करोषि
(v) वाक् + अर्थौ इव पार्वती परमेश्वरौ ।
उत्तरत:
सन्धि / सन्धिविच्छेदः
(i) पाठतः + अपि + अनभ्यासः
(ii) यत् + अवसरे
(iii) असत: + च
(iv) त्वम् + करोषि / त्वङ् करोषि ।
(v) वागर्थौ।

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) श्वेतकेतुः न्यग्रोधफलं आहरति ।
(क) न्यग्रोधस्य फलं
(ख) न्यग्रोधंफलं
(ग) न्यग्रोधाय फलं
(घ) न्यग्रोधेफलं
उत्तरत:
(क) न्यग्रोधस्य फलं

(ii) श्वेतकेतुः उद्धतस्वभावः आसीत् ।
(क) उद्धता: स्वभावाः
(ख) उद्धत: स्वभाव: यस्य सः
(ग) उद्धतेन स्वभावेन
(घ) उद्धतं स्वभावं
उत्तरत:
(क) क्रोधः च लोभः च

(iii) न गर्वो न दैन्यं न च क्रोध लोभौ
(क) क्रोधः च लोभः च
(ख) क्रोधौ लौभौ च
(ग) क्रोधं च लौभं च
(घ) क्रोधौ च लौभौन च
उत्तरत:
(ख) उद्धताः स्वभावः यस्य सः

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

(iv) चौरा: नगरे निर्द्वन्द्वम् विचरन्ति ।
(क) द्वन्द अभावं
(ख) द्वन्दस्य अभावः
(ग) द्वन्द्वानाम् अभावः
(घ) द्वन्दाय अभावः
उत्तरत:
(ग) द्वन्द्वानाम् अभावः ।

(v) महात्मानः समत्वं कथ्यते ।
(क) महान् आत्मा येषां ते
(ख) महान आत्मा यस्य सः
(ग) महात्मनि आत्मनि
(घ) महात्मा नः
उत्तरत:
(क) महान् आत्मा येषां ते।

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं विकल्पेभ्यः चित्वा वाक्यानि उत्तरपुस्तिकायां लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) हरिततरूणां ललितलतानां माला रमणीया
(क) रमणीय + आ
(ख) रमणीया + आ
(ग) रमणीया + टाप्
(घ) रमणी + टाप्
उत्तरत:
(ग) रमणीया + टाप्

(ii) बुद्धिमान् जनः सदैव सफलः भवति।
(क) बुद्धि + मतुप्
(ख) बुद्धि + शानच्
(ग) बुद्धि + त्व
(घ) बुद्धि + मत्
उत्तरत:
(क) बुद्धि + मतुप्

(iii) हिमकस्य शीतल + त्व लोके प्रसिद्धम अस्ति ।
(क) शीतलत्व
(ख) शीतलत्वम्
(ग) शीतलता
(घ) शीतलत्वाम्
उत्तरत:
(ख) शीतलत्वम्

(iv) कुसुमावलिः समीरचालिता में वरणीया ।
(क) समीरचालित + टाप्
(ख) समीरचालित + त्व
(ग) समीरचालित + तल्
(घ) समीर चलित + क्त
उत्तरत:
(क) समीरचालित + टाप्

(v) युद्ध बल + मतृप् जनः एव विजयं लभते ।
(क) बलमति
(ख) बलवान्
(ग) बलवती
(घ) बलमतीं
उत्तरत:
(ख) बलवान्

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

8. अधोलिखिते संवादे वाच्यानुसारं रिक्तस्थानपूर्तिं कुरुत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) तान्या ………….. खादति ।
(क) फलम्
(ख) फलाम्
(ग) फलेन
(घ) फलात्
उत्तरत:
(क) फलम्

(ii) ………….. चित्रापि दृश्यन्ते
(क) अहम्
(ख) माम्
(ग) अस्माभिः
(घ) मया
उत्तरत:
(ग) अस्माभिः

(iii) भगिनी ओदनं ……………….
(क) पचति
(ख) पच्यन्ते
(ग) पच्यते
(घ) पच्येते
उत्तरत:
(क) पचति

(iv) त्वया किम् …………… ?
(क) करोषि
(ख) करिष्यति
(ग) क्रियते
(घ) करोमि
उत्तरत:
(ग) क्रियते

9. विद्यालयस्य समयसारिणीम् उचितसमयवाचकैः पदैः पूरयित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(i) प्रातः ……………… वादने प्रार्थना। (7:30 प्रात:)
(ii) प्रात: ……………… अर्द्धावकाशः। (10:00 प्रात: )
(iii) प्रात: ……………… वादने पञ्चमः कालांश: । ( 10:15 प्रातः )
(iv) मध्याहने ……………… वादने पूर्ण: अवकाशः । ( 12:45 मध्याह्ने)
(v) छात्रैः ……………… वादने पाठः कण्ठस्थः कर्त्तव्य । (5:00)
उत्तरत:
(i) प्रातः सार्ध सप्त (वादने) वादने प्रार्थना। (7:30 प्रात:)
(ii) प्रात: दश (वादने) अर्द्धावकाशः। (10:00 प्रात: )
(iii) प्रात: सपाद दश (वादने) वादने पञ्चमः कालांश: । ( 10:15 प्रातः )
(iv) मध्याहने पादोन – एक (वादने)  वादने पूर्ण: अवकाशः । ( 12:45 मध्याह्ने)
(v) छात्रैः पञ्च (वादने) वादने पाठः कण्ठस्थः कर्त्तव्य । (5:00)

10. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) शीतलसमीर: ……………… प्रवहति ।
(ii) स: पाठं ……………… पठित्वा स्मरति ।
(iii) ……………… स्वगृहं गत्वा पठ।
(iv) वयम् ……………… शिवं भजामः ।
मञ्जूषा
अपि, शनैः, उच्चैः, अधुना
उत्तरत:
(i) शीतलसमीर: शनै: प्रवहति ।
(ii) स: पाठं उच्चैः पठित्वा स्मरति ।
(iii) अधुना स्वगृहं गत्वा पठ।
(iv) वयम् अपि शिवं भजामः ।

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

11. अधोलिखितवाक्येषु रेखांकितपदस्य शुद्धम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) इदम् उद्यानः अस्ति ।
(क) उद्याना:
(ख) उद्यानम्
(ग) उद्यानेषु
(घ) उद्यानात्
उत्तरत:
(ख) उद्यानम्

(ii) काम्या श्वः गीतम् गायति
(क) अगायत्
(ख) गास्यति
(ग) गायन्ति
(घ) गायामः
उत्तरत:
(ख) गास्यति

(iii) मम कृते शीतलः जलम् आनय ।
(क) शीतलम्
(ख) शीतला
(ग) शीतलाम्
(घ) शीतला:
उत्तरत:
(क) शीतलम्

(iv) इयम् बालः क्रीडति ।
(क) सा
(ख) इदम्
(ग) अयम्
(घ) एतत्
उत्तरत:
(ग) अयम्।

खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
“भो वासव! पुत्रस्य दैन्यं दृष्ट्वां अहं रोदिमि । सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति । इतरमिव वोढुं सः न शक्नोति । एतत् भवान् पश्यति न ?” इति प्रत्यवोचत्।
भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्-
यदि पुत्रसहस्रं में, सर्वत्र सममेव मे ।
दीनस्य तु सतः शक्र ! पुत्रस्याभ्यधिका कृपा ॥
प्रश्नाः
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2= 1)
(क) कः कृच्छ्रेण भारमुद्वहति ?
(ख) कस्य दैन्यं दृष्ट्वा सुरभि: रोदिति ?
(ग) कः वृषभं पीडयति ?
उत्तरत:
(क) कृषकः
(ख) पुत्रस्य
(ग) कृषकः

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) इन्द्रः सुरभिं किम् अपृच्छत् ?
(ख) ‘यदि पुत्र सहस्रं मे, सर्वत्र सममेव मे’ इदम् कथनं का अवोचत् ?
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किम् उत्तरं ददाति ?
उत्तरत:
(क) इन्द्रः सुरभिं अपृच्छत् – “अयि शुभे ! किमेवं रोदिषि”।
(ख) ‘यदि पुत्रसहस्रं मे सर्वत्र सममेव मे’ इदम कथनं सुरभिं अवोचत्।
(ग) सुरभिः इन्द्रस्य इदम् उत्तरं ददाति – भो वासव ! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)
(क) ‘पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि’ इति वाक्ये रोदिमि क्रियायाः कर्तृपदं किम् अस्ति ?
(ख) ‘प्रत्यवोचत् ‘ पदे सन्धिच्छेदं कुरु ?
(ग) ‘खलु’ इत्यर्थे प्रस्तुत गद्यांशे किम् पदं प्रयुक्तः ?
उत्तरत:
(क) अहं
(ख) प्रति + अवोचत्
(ग) नूनम् ।

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

13. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
आपेदिरेऽम्बर पथं परितः पतङ्ग,
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरसत्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु ।।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) के परितः अम्बरपथम् आपेदिरें ?
(ख) भृङ्गाः कानि समाश्रयन्ते ?
(ग) मीनाः कीदृर्शी सन्ति ?
उत्तरत:
(क) पतङ्गा
(ख) रसालमुकूलानि
(ग) दीनदीनो ।

आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) कः त्वयि संङ्कोचम् अञ्चति ?
(ख) पतङ्ग किम् आपेदिरे ?
(ग) के रसालमुकुलानि समाश्रयन्ते ?
उत्तरत:
(क) सरः त्वयि संङ्गोचम् अञ्चति ।
(ख) पतङ्गाः अम्बरपथम् आपेदिरे।
(ग) भृङ्गा रसालमुकुलानि समाश्रयन्ते ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘सर्वतः’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
(ख) ‘सरः त्वयि संकोचम् अञ्जति’ अत्र किं क्रियापदं प्रयुक्तं ?
(ग) ‘भृङ्गाः रसालमुकुलानि समाश्रयन्ते’ अत्र किं कर्तृपदं प्रयुक्तं ?
उत्तरत:
(क) परितः
(ख) अञ्जति
(ग) भृङ्गाः ।

14. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
चाणक्यः – भो श्रेष्ठिन् ! अलमाशङ्कया । भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति । ततस्तत्प्रच्छादनं दोषमुत्पादयति ।
चन्दनदासः – एवं नु इदम्। तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति ।
चाणक्यः – पूर्वम् ‘अनृतम’, इदानीम् “आसीत्” इति परस्परविरुद्धे वचने ।
चन्दनदासः – आर्य! तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति ।
चाणक्यः – अथेदानीं क्व गतः ?
चन्दनदासः – न जानामि ।
चाणक्यः – कथं न ज्ञायते नाम ? भो श्रेष्ठिन् ! शिरसि भयम्, अतिदूरं तत्प्रतिकारः ।
चन्दनदासः – आर्य! किं मे भयं दर्शयसि ? सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम् ?
चाणक्यः – चन्दनदास ! एष एव ते निश्चयः ?
चन्दनदासः – बाढम्, एष एव मे निश्चयः ।

प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) कया अलम् ?
(ख) प्रच्छादनं किम् उत्पादयति ?
(ग) अस्मद् गृहे कस्य गृहजन आसीत् ?
उत्तरत:
(क) आशङ्कया
(ख) दोषं
(ग) अमात्यराक्षसस्य ।

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) परस्पर विरुद्ध वचनं किम् आसन् ?
(ख) के पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं ब्रजन्ति ?
(ग) सन्तमपि गेहे कस्मै गृहजनं न समर्पयामि ?
उत्तरत:
(क) पूर्वम् ‘अनृतम’ ‘इदानीम् “आसीत्” इति परस्परविरुद्ध वचनं आसन् ।
(ख) भीताः पूर्वराजपुरुषाः पौराणमिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं ब्रजन्ति ।
(ग) सन्तमपि गेहे अमात्मराक्षसस्य गृहजनं न समर्पयामि ।

इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)
(क) ‘न निवसन्तम्’ इत्यर्थे अत्र कः पर्यायः प्रयुक्त: ?
(ख) ‘ग्रामवासिनाम्’ इत्यर्थे अत्र कः विलोम : प्रयुक्तं ?
(ग) ‘शिरसि ‘ पदे का विभक्ति: प्रयुक्ता ?
उत्तरत:
(क) असन्तम्
(ख) नगरवासिनं
(ग) सप्तमी ।

15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)

(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत् ।
(ख) गज: वन्यपशून तुदन्तं शुण्डेन पोथयित्वा मारयति ।
(ग) वानरः आत्मानं वनराजपदाय योग्य: मन्यते ।
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
(ङ) सः कृच्छ्रेण भारं उद्वहति ।
उत्तरत:
(क) सिंहः वानराभ्यां काभ्याम् असमर्थः एवासीत् ?
(ख) गजः वन्यपशून तुदन्तं केन पोथयित्वा मारयति ?
(ग) वानरः आत्मानं कस्मै योग्य: मन्यते ?
(घ) मयूरस्य नृत्यं कस्याः आराधना ?
(ङ) सः केन भारं उद्वहति ?

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकयोः अन्वयं पूरयत- (1 × 4 = 4)

अगाधजलसञ्चारी न गर्वं याति रोहितः ।
अङ्गुष्ठोदकमात्रेण शफरी फुर्फुरायते ।।

अन्वयः- रोहित: (i) …………. गर्वं न (ii) ……….. । शफरी (iii) ……… फुर्फ: (iv) …………. ।
मञ्जूषा- अगाधजलसञ्चारी, आयते, याति, अङ्गुष्ठोदकमात्रेण

अथवा

मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकयस्य भावार्थे रिक्तस्थानिपूरयत पूरयत्- (1 × 4 = 4)

भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव ।
व्रजति हिमेकरोऽपि बालभावात्
पशुपति – मस्तक – केतकच्छदत्वम्॥

भावार्थ:- प्रस्तुते श्लोके (i) ……….. स्नेहस्य अत्यन्तं मनोहरं वर्णयत् । अत्यधिकम् (ii) …………. जनेभ्यः अपि शिशुजनः लालनीयः एव भवति । चन्द्रः वात्सल्य भावात् एव (iii) ………… मस्तकस्य भूषणं रचयित्वा केतकस्य छदत्वम् तुल्यं (iv) ………… भवति ।
मञ्जूषा – शिशोः, सुशोभितं, गुणवान्, पशुपति
उत्तरत:
अन्वयः- रोहित: (i) अगाधजलसञ्चारी गर्वं न (ii) याति । शफरी (iii) अङ्गुष्ठोदकमात्रेण फुर्फ: (iv) आयते
अथवा
भावः – प्रस्तुते श्लोके (i) शिशोः स्नेहस्य अत्यन्तं मनोहरं वर्णयत् । अत्यधिकम् (ii) गुणवान् जनेभ्यः अपि शिशुजन लालनीयः एव भवति। चन्द्रः वात्सल्य भावात् एव (iii) पशुपति: मस्तकस्य भूषणं रचयित्वा केतकस्य छदत्वम् तुल्यं (iv) सुशोभितं भवति ।

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)

(क) तस्य मृतशरीरं राजमार्गं निकषा वर्तते।
(ख) अन्येद्युः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ ।
(ग) न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(घ) तदैव कश्चित् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः ।
(ङ) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।
(च) ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् ।
(छ) सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम् ।
(ज) किन्तु प्रमाणा भावात् स निर्णेतुं नाशक्नोत् ।
उत्तरत:
घटनाक्रम-
(क) न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(ख) सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्।
(ग) किन्तु प्रमाणा भावात् स निर्णेतुं नाशक्नोत्।
(घ) ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।
(ङ) अन्येद्युः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ ।
(च) तदैव कश्चित् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः।
(छ) तस्य मृतशरीरं राजमार्गं निकषा वर्तते ।
(ज़) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।

18. अधोलिखितानां पदानां पर्यायं लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)

(i) वानर : गजस्य पुच्छं विधूय वृक्षोपरि आरोहति ।
(क) मर्कट:
(ख) तुदत:
(ग) गर्दभः
(घ) गज:
उत्तरत:
(क) मर्कट:

(ii) नौ जलधौ विल्लवेत् ।
(क) निमज्जेत्
(ख) विशीर्येत्
(ग) जायेत्
(घ) ज्ञायेत
उत्तरत:
(क) निमज्जेत्

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

(iii) त्वम् वराकन् मीनान् छलेन अधिगृह्य क्रूरतया भक्षमसि ।
(क) गृहीत्वा
(ख) त्यजयित्व
(ग) आहत्य
(घ) आगम्य
उत्तरत:
(क) गृहीत्वा

(iv) सः कृक्ष्छेण भारम् उद्वति ।
(क) काठिन्येन
(ख) कठिनं
(ग) कठिनता
(घ) कठिनया
उत्तरत:
(क) काठिन्येन