Students can easily access the NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Questions and Answers which include important questions and deep explanations provided by our experts.
Shemushi Sanskrit Class 10 Solutions Chapter 1 शुचिपर्यावरणम्
Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Textbook Questions and Answers
प्रश्न-अभ्यासः (पृष्ठ 6-9)
प्रश्न 1.
एकपदेन उत्तरं लिखत
(क) अत्र जीवितं कीदृशं जातम्?
(ख) अनिशं महानगरमध्ये किं प्रचलति?
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
(घ) अहं कस्मै जीवनं कामये?
(ङ) केषां माला रमणीया?
उत्तर:
(क) दुर्वहम् (दुष्करम्)
(ख) कालायसचक्रम्
(ग) भक्ष्यम्
(घ) मानवाय
(ङ) ललितलतानाम्
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तर:
(क) धरातले दुर्वहम् जीवितं जातं अतः कविः शुद्धपर्यावरणाय प्रकृतेः शरणम् इच्छति।
(ख) मार्गेषु यानानां अनन्ताः पङ्क्यः सन्ति अतः महानगरेषु संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं धरातलम् च दूषितम् अस्ति।
(घ) कविः नगरात् बहुदूरम् ग्रामान्ते एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशे शुद्धपर्यावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कवेः कामना अस्ति यत् पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् मानवाय च जीवनस्य कामना अस्ति।
More Resources for CBSE Class 10
- NCERT Solutions
- NCERT Solutions for Class 10 Science
- NCERT Solutions for Class 10 Maths
- NCERT Solutions for Class 10 Social
- NCERT Solutions for Class 10 English
- NCERT Solutions for Class 10 Hindi
- NCERT Solutions for Class 10 Sanskrit
- NCERT Solutions for Class 10 Foundation of IT
- RD Sharma Class 10 Solutions
प्रश्न 3.
सन्धिं/सन्धिविच्छेदं कुरुत
उत्तर:
प्रश्न 4.
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानीं वायुमण्डलं ……………. प्रदूषितमस्ति।
(ख) ………….. जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् ……………….. लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् …………….. प्रकृतेः आराधना।
(ङ) ………….. समयस्य सदुपयोग: करणीयः।
(च) भूकम्पित-समये …………………. गमनमेव उचितं भवति।
(छ) ………….. हरीतिमा …………… शुचि पर्यावरणम्।
उत्तर:
(क) इदानीं वायुमण्डलं भृशम् प्रदूषितमस्ति।
(ख) अत्र जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।
प्रश्न 5.
(अ) अधोलिखितानां पदानां पर्यायपदं लिखत
(क) सलिलम् ………….
(ख) आम्रम् ………….
(ग) वनम् ………….
(घ) शरीरम् ………….
(ङ) कुटिलम् ………….
(च) पाषाणः ………….
उत्तर:
(क) सलिलम् – जलम्
(ख) आम्रम् – रसालम्
(ग) वनम् – कान्तारम्
(घ) शरीरम् – तनुः
(ङ) कुटिलम् – वक्रम्
(च) पाषाणः – प्रस्तरम्
(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत
(क) सुकरम् ……………
(ख) दूषितम् ……………
(ग) गृहणन्ती ……………
(घ) निर्मलम् ……………
(ङ) दानवाय ……………
(च) सान्ताः ……………
उत्तर:
(क) दुर्वहम्
(ख) शुद्धम्
(ग) मुञ्चन्ति
(घ) समलम्
(ङ) मानवाय
(च) अनन्ताः
प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत
उत्तर:
समस्तपद – समासनाम
(ख) हरिततरूणाम् — कर्मधारय
(ग) ललितलतानाम् — कर्मधारय
(घ) नवमालिका — कर्मधारय
(ङ) धृतसुखसन्देशम् — बहुब्रीहि
(च) कज्जलमलिनम् — कर्मधारय
(छ) दुर्दान्तदशनैः — कर्मधारय
प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
उत्तर:
(क) शकटीयानम् कीदृशं धूमं मुञ्चति?
(ख) उद्याने केषाम् कलरवं चेतः प्रसादयति?
(ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?
(घ) कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
(ङ) कस्याः सन्निधौ वास्तविकं सुखं विद्यते?
Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Additional Important Questions and Answers
पठित-अवबोधनम्
I. पठित-सामाग्र्याम् आधारितम् अवबोधनकार्यम्
अधोलिखितश्लोकान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत —
(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम् ।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। (पृष्ठ 3)
प्रश्ना:
I. एकपदेन उत्तरत
(i) दुर्दान्तैः दशनैः किम् न स्यात्?
(ii) अत्र जीवितं कीदृशं जातम्?
उत्तर:
(i) जनग्रसनम्
(ii) दुर्वहम्
II. पूर्णवाक्येन उत्तरत
कालायसचक्रम् महानगरमध्ये किम् करोति?
उत्तर:
कालायसचक्रम् महानगरमध्ये चलत् अनिशं मनः शोषयत् तनुः पेषयद् सदा वक्रम् भ्रमति।
III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘अहर्निशम्’ इति पदस्य पर्यायपदम् किम्?
(क) अनिशं
(ख) दनिशं
(ग) चलदनिशं
(घ) निशम्
उत्तर:
(क) अनिशं
(ii) ‘दशनैः’ इति पदस्य विशेषणपदं किम्? ।
(क) दुर्दान्त
(ख) दुर्दान्तैः
(ग) दान्तैः
(घ) रमुना
उत्तर:
(ख) दुर्दान्तः
(iii) ‘सुकरम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) शरणम्
(ख) दुर्वहम्
(ग) दुर्व
(घ) शुचि
उत्तर:
(ख) दुर्वहम्
(iv) ‘भ्रमति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) वक्रम्
(ख) मनः
(ग) तनुः
(घ) कालायसचक्रम्
उत्तर:
(घ) कालायसचक्रम्
(ख) कज्जलमलिनं धूम मुञ्चति शतशकटीयानम् ।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्॥
प्रश्ना :
I. एकपदेन उत्तरत
(i) केषाम् अनन्ताः पङ्क्तयः धावन्ति?
(ii) किम् धूमं मुञ्चति?
उत्तर:
(i) यानानां
(ii) शतशकटीयानम्
II. पूर्णवाक्येन उत्तरत
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तर:
महानगरेषु यानानां अनन्ताः पङ्क्तः सन्ति अतः अत्र संसरणम् कठिनं वर्तते।
III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘कज्जलमलिनं’ इति पदस्य विशेष्यपदं किम्?
(क) यानम्
(ख) धूम
(ग) ध्वानम्
(घ) शकटीयानम्
उत्तर:
(ख) धूमं
(ii) ‘गृह्णाति’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वितरन्ती
(ख) मुञ्चति
(ग) ध्वानम्
(घ) संसरणम्
उत्तर:
(ख) मुञ्चति
(iii) ‘पङक्तिः ‘ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) माला
(ख) अनन्ताः
(ग) पङ्क्ताः
(घ) ध्वानम्
उत्तर:
(क) माला
(iv) ‘शतशकटीयानम्-धूमं मुञ्चति।’ रिक्तपूर्तिः क्रियताम्
(क) कज्जल
(ख) मलिनं
(ग) ध्वानम्
(घ) कज्जलमलिनम्
उत्तर:
(घ) कज्जलमलिनम्
(ग) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। (पृष्ठ 4)
प्रश्ना :
I. एकपदेन उत्तरत
(i) निर्झर-नदी-पयःपूरम् कुत्र सन्ति?
(ii) कविः कस्मात् बहुदूरम् गन्तुम् कथयति?
उत्तर:
(i) ग्रामान्ते
(ii) नगरात्
II. पूर्णवाक्येन उत्तरत
कविः कुत्र सञ्चरणम् कर्तुम् कथयति?
उत्तर:
कविः एकान्ते कान्तारे शुद्धपर्यावरणे सञ्चरणम् कर्तुम् कथयति।
III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘कान्तारे’ इति पदस्य विशेषणपदं किम्?
(क) एकान्ते
(ख) ग्राम
(ग) ग्रामान्तरे
(घ) क्षणमपि
उत्तर:
(क) एकान्ते
(ii) ‘जलं’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) कालं
(ख) नय
(ग) पयः
(घ) पूरम् ।
उत्तर:
(ग) पयः
(iii) श्लोकस्य प्रथमे पंक्तौ क्रियापदम् किम्?
(क) किञ्चित्
(ख) कालं
(ग) माम्
(घ) नय
उत्तर:
(घ) नय
(iv) कविः एकान्ते कान्तारे सञ्चरणम् कर्तुम्-1 रिक्तपूर्तिः कुरुत
(क) इच्छामि
(ख) स्यात्
(ग) इच्छति
(घ) ऐच्छन्। उत्तराणि
उत्तर:
(ग) इच्छति
(घ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
मानवाय जीवनं कामये नो जीवन्मरणम्। (पृष्ठ 4)
I. एकपदेन उत्तरत
(i) लतातरुगुल्माः कुत्र न पिष्टाः भवन्तु?
(ii) कस्मै जीवनं कामये?
उत्तर:
(i) प्रस्तरतले
(ii) मानवाय
II. पूर्णवाक्येन उत्तरत
निसर्ग का पाषाणी सभ्यता समाविष्टा न स्यात्?
उत्तर:
निसर्गे पाषाणी सभ्यता समाविष्टा न स्यात्।
III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) प्रस्तरतले
(ख) पिष्टा
(ग) लतातरुगुल्माः
(घ) लता
उत्तर:
(ग) लतातरुगुल्माः
(ii) ‘प्रकृत्याम्’ इति पदस्य समानार्थकपदं किम्?
(क) निसर्गे
(ख) प्रस्तरतले
(ग) पाषाणी
(घ) सभ्यता
उत्तर:
(क) निसर्गे
(iii) ‘जीवन’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) पिष्टाः
(ख) समाविष्टा
(ग) मरणम्
(घ) स्यात्
उत्तर:
(ग) मरणम्
(iv) ‘पाषाणी सभ्यता – समाविष्टा न स्यात्।’ रिक्तपूर्तिः कुरुत
(क) प्रस्तरतले
(ख) संसारे
(ग) निसर्गे
(घ) ग्रामे उत्तराणि
उत्तर:
(ग) निसर्गे
II. प्रश्ननिर्माणम्
अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् उत्तराणि
(i) प्रस्तरतले लतातरुगुल्माः पिष्टाः न भवन्तु।
(ii) मानवाय जीवनं कामये।
(iii) अस्मात् नगरात् बहुदूरम् माम् नय।
(iv) वायुमण्डलं दूषितं जातम्।
(v) वाष्ययानमाला ध्वानं वितरन्ती संधावति।
(vi) दुर्दान्तैः दशनैः जनग्रसनं न स्यात्।
(vii) एकान्ते कान्तारे क्षणम् अपि मे सञ्चरणम् स्यात्।
प्रश्ना :
(i) प्रस्तरतले के पिष्टाः न भवन्तु?
(ii) कस्मै जीवनं कामये?
(iii) कस्मात् बहुदूरम् माम् नय?
(iv) वायुमण्डलं कीदृशं जातम्?
(v) का ध्वानं वितरन्ती संधावति?
(vi) कीदृशैः दशनैः जनग्रसनम् न स्यात्?
(vii) कुत्र क्षणम् अपि मे सञ्चरणम् स्यात्?
III. ‘क’ अन्वयः
अधोलिखितश्लोकानाम् अन्वयानाम् समुचितपदानि चित्वा पूरयत
(1) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। शुचि-पर्यावरणम्।।
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्।।
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।
अन्वयः-अत्र जीवितं (i)…………. जातम् प्रकृतिः (ii)………… शरणम्। शुचि-पर्यावरणं (भवेत्)। महानगरमध्ये (iii)……… . चलत् कालायसचक्रम् मनः (iv)……………… तनुः (v)……………… सदा वक्रम् (vi)………… अमुना दुर्दान्तैः (vii)….. जनग्रसनम् न एव। (viii).
अनिशं, स्यात्, शोषयत्, दुर्वहम्, भ्रमति, एव, पेषयद्, दशनैः
उत्तर:
अत्र जीवितं दुर्वहम् जातम् प्रकृतिः एव शरणम्। शुचि-पर्यावरणं (भवेत्)। महानगरमध्ये अनिशं चलत् कालायसचक्रम् मनः शोषयत् तनु पेषयद् सदा वक्रम् भ्रमति। अमुना दुर्दान्तैः दशनैः जनग्रसनम् न एव स्यात्।
(2) कज्जलमलिनं धूम मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्।।
यानानां पङ्क्तयो हनन्ताः कठिनं संसरणम्।
वाष्पयानमाला संधावति।
अन्वयः-शतशकटीयानम् (i)……… धूमं मुञ्चति। ध्वानं (ii) हि यानानां (iii)…………………. पङ्क्त यः (iv)……………….. संसरणम्।
मञ्जूषा- | अनन्ताः, कठिन, वितरन्ती, कज्जलमलिनम्
उत्तर:
शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति। ध्वानं वितरन्ती वाष्पयानमाला संधावति। हि यानानां अनन्ताः पङ्क्तयः कठिनं संसरणम्।
(3) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।।
अन्वयः — अस्मात् (i)………. बहुदूरम् (ii)……………. कालं (iii)…………………. नय। ग्रामान्ते निर्झर–(iv)………………… पय:पूरम् (v)…………………। एकान्ते (vi)…………………. क्षणम् ……. मे सञ्चरणम् (viii) ………….. (vii)………..
मञ्जूषा- नदी, स्यात्, प्रपश्यामि, अपि, कान्तारे, नगरात्, माम्, कञ्चित्
उत्तर:
अस्मात् नगरात् बहुदूरम् कञ्चित् कालं माम् नय। ग्रामान्ते निर्झर-नदी पयःपूरम् प्रपश्यामि। एकान्ते कान्तारे क्षणम् अपि मे सञ्चरणम् स्यात्।
III. ‘ख’ भावार्थः
अधोलिखितकथनानाम् भावं विकल्पेभ्यः चित्वा लिखत
(क) ‘दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।’
भावार्थ:-अस्य भावः अस्ति यत् अद्यत्वे प्रदूषिते (i)………………… मानवाय जीवनं (ii)……………….. जातम् अतः पर्यावरणं (iii)…………….. स्वच्छं च करणीयं यतः प्रकृते: (iv)……………… एव सुरक्षितम् आश्रयम् अस्ति।
मञ्जूषा- शरणम् , दुष्करम्, पर्यावरणे, शुद्धम् ।
उत्तर:
(i) पर्यावरणे
(ii) दुष्करम्
(iii) शुद्धम्
(iv) शरणम्
(ख) “यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।’
भावार्थ:-आधुनिक युगे (i)…………. मार्गेषु विविधयानानां (ii)……………. धूमं मुञ्चन्ति (iii). धावन्ति अतएव तत्र चलनं गगनं च (iv)……………. वर्तते।
मञ्जूषा- कताराः, तीव्रगत्या, कठिनं , महानगरेषु
उत्तर:
(i) महानगरेषु
(ii) कताराः
(iii) तीव्रगत्या
(iv) कठिनं
(ग) “एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।’
भावार्थ:-कविः प्रदूषितमहानगरात् (i)…………. ‘गत्वा प्राकृतिक वातावरणे (ii)…………. शान्ते एकान्ते (iii) ……………. ‘चलितुम् (iv) ………..
मञ्जूषा- वाञ्छति, वने, गत्वा, बहुदूरम् |
उत्तर:
(i) बहुदूरम्
(ii) गत्वा
(iii) वने
(iv) वाञ्छति
IV. प्रसङ्गानुकूलम् उचितार्थम्
I. रेखांकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थं चित्वा लिखत
(i) पाषाणी सभ्यता निसर्ग समाविष्टा न स्यात्।
(क) प्रकृतिः
(ख) धरातलं
(ग) नीरसतां
(घ) प्रकृत्याम्
उत्तर:
(घ) प्रकृत्याम्
(ii) अत्र जीवितं दुर्वहम् जातम्।
(क) दुष्करम्
(ख) सुखकरं
(ग) सुकरं
(घ) दु:खद
उत्तर:
(क) दुष्करम्
(iii) महानगरमध्ये अनिशं कालायसचक्रम् चलति।
(क) निशायाम्
(ख) दिवा
(ग) अहर्निशम्
(घ) निशम्य
उत्तर:
(ग) अहर्निशम्
(iv) तनुः पेषयद् सदा वक्रम् भ्रमति।
(क) पुत्रः
(ख) जीवः
(ग) पुत्रं
(घ) शरीरम्
उत्तर:
(घ) शरीरम्
(v) दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
(क) दंशः
(ख) दन्तैः
(ग) मुखैः
(घ) दशनैः
उत्तर:
(ख) दन्तैः
(vi) एकान्ते कान्तारे मे सञ्चरणम् स्यात्।
(क) नारी
(ख) नगरे
(ग) ग्रामे
(घ) वने
उत्तर:
(घ) वने
V. पर्यायपदानि/विलोमपदानि
(1) अधोलिखितपदानां पर्यायपदानि लिखत
कान्तारे, दुर्वहम्, प्रस्तरं, रसालम्
उत्तर:
कान्तारे — वने, अरण्ये।
दुर्वहम् — दुष्करम्, कठिनम्।
प्रस्तरम् — पाषाणं, शिला।
रसालम् — आम्रम्, अमृतफलम्।
(2) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत
उत्तर: