Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 4 allows you to get rid of exam fear and be confident to appear for the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 4 with Solutions
समय: 3 होराः
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
प्रश्नपत्रस्वरूपम् –
‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)
खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)
कालिदासः मेघदूतं रचितवान्। मेघदूते मानसूनविज्ञानस्य अद्भुतं वर्णनम् अस्ति । मानसूनसमयः आषाढमासात् प्रारभते। श्याममेघान् दृष्ट्वा सर्वे जनाः प्रसन्नाः भवन्ति । मयूराः नृत्यन्ति । मानसूनमेघाः सर्वेषां जीवानां कष्टम् अपहरन्ति । मेघानां जलं वनस्पतिभ्यः, पशुपक्षिभ्यः किं वा सर्वेभ्यः प्राणिभ्यः जीवनं प्रयच्छति । मेघजलैः भूमेः उर्वरा शक्तिः वर्धते । क्षेत्राणां सिञ्चनं भवति। गगने यदा कदा इन्द्रधनुषः अपि दृश्यते । वायुः शीतलः भवति । शुष्कभूमौ वर्षायाः बिन्दवः पतन्ति । भूमेः सुगन्धितं वाष्पं निर्गच्छति । कदम्बपुष्पाणि विकसन्ति । तेषु भ्रमराः गुञ्जन्ति । हरिणाः प्रसन्नाः भूत्वा इतस्ततः धावन्ति । चातकाः जलबिन्दून् पिबन्ति । बलाकाः पंक्ति बद्ध्वा आकाशे उड्डीयन्ते । मेघदूते मेघः यक्षस्य सन्देशं नयतु इति प्रार्थितः । अतः कालिदासः वायुमार्गस्य ज्ञानवर्धकं वर्णनं करोति ।
प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) मेघानां जलं प्राणिभ्यः किं प्रयच्छति ?
(ii) भ्रमराः कुत्र गुञ्जन्ति ?
(iii) कस्मिन् मानसून विज्ञानस्य अद्भुतं वर्णनं अस्ति ?
उत्तरत:
(i) जीवनं
(ii) कदम्बपुष्पेषु
(iii) मेघदूते।
आ. पूर्णवाक्येन उत्तरत् – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) भूमेः किं निर्गच्छति ?
(ii) मेघदूतं कः रचितवान् ?
(iii) के पंक्ति – बद्धवा आकाशे उड्डीयन्ते ?
उत्तरत:
(i) भूमेः सुगन्धितं वाष्पं निर्गच्छति।
(ii) मेघदूतं कालिदासः रचितवान्।
(iii) बलाकाः पंक्ति बद्धवा आकाशे उड्डीयन्ते ।
इ. उपयुक्तं शीर्षकं – अस्य अनुच्छेदस्य कृते एकं समुचितं शीर्षकं लिखत । (1 × 1 = 1)
उत्तरत:
उपयुक्तं शीर्षकं – कालिदासेन विरचितम् मेघदूतं/खण्डकाव्य मेघदूतं ।
ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) अन्तिमवाक्यात् अव्ययपदं चित्वा लिखत ।
(क) अत:
(ख) वर्णनम्
(ग) ज्ञानवर्धकम्
(घ) वृद्धिं
उत्तरत:
(क) अत:
(ii) ‘ज्ञानवर्धकम्’ इति कस्य विशेषणम् ?
(क) वर्णनम्
(ख) सिञ्चनं
(ग) कालिदासः
(घ) मेघदूतं
उत्तरत:
(क) वर्णनम्
(iii) ‘धावन्ति’ इति क्रियापदस्य कर्ता कः ?
(क) हरिणा:
(ख) प्रसन्नाः
(ग) इतस्ततः
(घ) पततः
उत्तरत:
(क) हरिणा:
(iv) ‘हरिणा: प्रसन्नाः भूत्वा इतस्ततः धावन्ति।’ इति वाक्ये ‘भूत्वा’ पदे कः प्रत्ययः प्रयुक्तम् ?
(क) क्त्वा
(ख) ल्यप्
(ग) क्त
(घ) क्तवतु
उत्तरत:
(क) क्त्वा
खण्ड ‘रव’ : रचनात्मकं कार्यम्
(15 अङ्काः)
2. भवत्याः नाम सुनीता। भवत्याः सखी रमा संस्कृतं पठितुं भवत्याः परामर्शं वाञ्छति । तां प्रेरयितुं लिखितं पत्रं मञ्जूषायाः सहायतया पूरयित्वा तत्पत्रं पुनः उत्तरपुस्तिकायां लिखतु। (1/2 × 10 = 5)
ए 20, जनकपुरी
(i) ………
तिथि : ……….
प्रिय (ii) ………
नमस्ते ।
भवत्याः पत्रं प्राप्तम्। भवती संस्कृतभाषां पठितुम् इच्छति, (iii) ……………. पठित्वा मे प्रसन्नतायाः सीमा नास्ति । एषा भाषा सर्वाधिका (iv) ………… । संस्कृतम् अस्माकं देशस्य प्रतिष्ठा । वेदाः, उपनिषदः, रामायण, महाभारतं, पुराणानि, महाकाव्यानि, कथासाहित्यम् इत्यादिकं सर्वं (v) ……………… अत्यन्तं मार्गदर्शक, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति । (vi) ………….. संस्कृतं पृथक् कर्तुं तथैव न शक्यते यथा पुष्पेभ्यः सुगन्धम्। संस्कृतेन सम्भाषणम् अस्माकं हृदयेषु (vii) …………. वर्धयति, हीनभावनां च नाशयति । अतः त्वम् अवश्यं (viii) ……….. पठ, पठित्वा च (ix) …………. कुरु । एवं वयं भारतमातुः सेवां कृत्वा धन्याः भवाम।
सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अनुजेभ्यः च आशीर्वादाः ।
भवत्याः सखी
(x) ……….
मञ्जूषा – वैज्ञानिकी, प्रचारं, वाङ्मयम्, सुनीता, भारतीयसंस्कृते:, रमे, इति, गौरवं, संस्कृतं, नवदिल्लीतः
उत्तरत:
ए 20, जनकपुरी
(i) नवदिल्लीतः
तिथि : ……….
प्रिय (ii) रमे
नमस्ते ।
भवत्याः पत्रं प्राप्तम्। भवती संस्कृतभाषां पठितुम् इच्छति, (iii) इति पठित्वा मे प्रसन्नतायाः सीमा नास्ति । एषा भाषा सर्वाधिका (iv) वैज्ञानिकी । संस्कृतम् अस्माकं देशस्य प्रतिष्ठा । वेदाः, उपनिषदः, रामायण, महाभारतं, पुराणानि, महाकाव्यानि, कथासाहित्यम् इत्यादिकं सर्वं (v) वाङ्मयम् अत्यन्तं मार्गदर्शक, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति । (vi) भारतीयसंस्कृतेः संस्कृतं पृथक् कर्तुं तथैव न शक्यते यथा पुष्पेभ्यः सुगन्धम्। संस्कृतेन सम्भाषणम् अस्माकं हृदयेषु (vii) गौरवं वर्धयति, हीनभावनां च नाशयति । अतः त्वम् अवश्यं (viii) संस्कृतं पठ, पठित्वा च (ix) प्रचारं कुरु । एवं वयं भारतमातुः सेवां कृत्वा धन्याः भवाम।
सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अनुजेभ्यः च आशीर्वादाः ।
भवत्याः सखी
(x) सुनीता ।
3. अधः प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
मञ्जूषा – बालकः, पादकन्दुकेन, पुस्तकम्, पठति, द्वौ बालकौ, चित्रफलके, क्रीडतः, बालिका, निर्माणं, चित्रम्, यन्त्रेण, पश्यति ।
उत्तरत:
(1) इदं चित्रं क्रीडांगणस्य अस्ति ।
(2) अस्मिन् चित्रे द्वौ बालकौ पादकन्दुकेन क्रीडतः।
(3) एक: बालक: पुस्तकं पठति ।
(4) एका बालिका चित्रफलके चित्रं निर्माणं करोति ।
(5) एक: बालक: यन्त्रेण शोभां पश्यति ।
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृत वाक्यैः एकम् अनुच्छेदं लिखत-
” भारत भूमिः ”
अस्माकम्, अयम्, देशः, भारतवर्षम्, हिमालयात्, रामेश्वर पर्यन्तम्, नद्यः, गंगा, यमुना, गोदावरी-प्रभृतयः, अत्र, काशी, प्रयाग :, तीर्थनगरानि जाता:, अत्रैव, राम-कृष्ण-गौतमाः, ग्रामप्रधानः, कृषिप्रधानः ।
उत्तरत:
अनुच्छेद-लेखनम्
(1) अस्माकं देश: भारतवर्षम् अस्ति।
(2) भारतभूमि: हिमालयात् रामेश्वरपर्यन्तं विस्तृता अस्ति ।
(3) भारतभूमौ गंगा-यमुना- गोदावरी प्रभृतयः नद्याः प्रवहन्ति।
(4) अत्र काशी प्रयाग : मथुरा च तीर्थनगराणि मन्यते।
(5) अत्रैव रामकृष्ण – गौतमाः आदयः महापुरुषाः अभवन्।
4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखतं – (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(1) पेड़ से फल गिरते हैं ।
1. Fruit falls from the tree.
(2) राम अयोध्या से वन को गए।
2. Ram went to forest from Ayodhya.
(3) नदियाँ परोपकार के लिए बहती हैं।
3. Rivers are flow for philanthropy.
(4) फल के लिए कर्म नहीं करना चाहिए ।
4. Should not work for the Result.
(5) मैंने शिक्षक से पाठ पढ़ा।
5. I read a Lesson from the Teacher.
(6) हमें नित्य व्यायाम करना चाहिए ।
6. We should do excrcise daily.
(7) वह गाय का दूध पीता है।
7. He drinks cow’s milk.
उत्तरत:
संस्कृत भाषायां अनुवाद-
(1) वृक्षात् फलानि पतन्ति ।
(2) रामः अयोध्यायाः वनं अगच्छत्।
(3) नद्या: परोपकाराय वहन्ति ।
(4) फलाय कर्म न कुर्यात् ।
(5) अहम् शिक्षकात् गणितम् अपठम् ।
(6) वयम् नित्यं व्यायामं कुर्यात् ।
(7) स: गोदुग्धम् पिबति ।
खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(15 अङ्काः)
5. अधोलिखित वाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।
(ii) तनुः पेषयद्भ्रमति सदा वक्रम्।
(iii) अयमेक: + तावत् विभज्य भुज्यताम् ।
(iv) भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह।
(v) अन्योऽपि मुच्यते महतः + भयात् ।
उत्तरत:
(i) स्यात् + न
(ii) पेषयत् + भ्रमति
(iii) अयमेकस्तावत्
(iv) क: + चित्
(v) महतो भयात्।
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) जगतः पितरौ वन्दे ।
(क) माता च पिता च
(ख) पिता च भ्राता च
(ग) माता च पुत्री च
(घ) माता पितौ
उत्तरत:
(क) माता च पिता च
(ii) वयं परिश्रमं कुर्मः विघ्नानाम् अभावं च अनुभवामः ।
(क) प्रतिविघ्नः
(ख) अनुविघ्नम्
(ग) निर्विघ्नम्
(घ) प्रतिविघ्नम्
उत्तरत:
(ग) निर्विघ्नम्
(iii) नीलः कण्ठः यस्य सः हिमालये वसति ।
(क) नीलकण्ठः
(ख) कण्ठनीलः
(ग) नीलकण्ठ
(घ) नीलकण्ठेन
उत्तरत:
(क) नीलकण्ठः
(iv) राजपुरुष : राज्ये भ्रमति ।
(क) राज्ञ: पुरुष:
(ख) राजानं पुरुषः
(ग) राज्ञे पुरुषः
(घ) राज्ञयपुरुष:
उत्तरत:
(क) राज्ञ: पुरुष:
(v) अत्र गृहस्य अभ्यन्तरे।
(क) गृहस्य अभ्यन्तरे
(ख) गृहाभ्यन्तरे
(ग) गृहं अभ्यन्तरे
(घ) गृहे अभ्यन्तरे
उत्तरत:
(ख) गृहाभ्यन्तरे ।
7. अधोलिखित्वाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) नीतिमान् एव श्रेष्ठ भवति ।
(क) नीति + मान्
(ख) नीति + वतुप्
(ग) नीति + मतुप्
(घ) नीति + मत्
उत्तरत:
(ग) नीति + मतुप्
(ii) भारतस्य भौगोलिकी स्थिति: विचित्रा अस्ति ।
(क) भूगोल + की
(ख) भूगोल + ढक्
(ग) भूगोल + इकी
(घ) भौगोल + इक
उत्तरत:
(ख) भूगोल + ढक्
(iii) व्यवहारे सज्जनता भवेत् ।
(क) सज्जन + तल्
(ख) सज्जन + ता
(ग) सज्जना + ता
(घ) सज्ज + नता
उत्तरत:
(क) सज्जन + तल्
(iv) उपकारिणी वृत्तिः भवति खलु सज्जनानां ।
(क) उपकारिण + ङीप्
(ख) उपकारिण + ढक्
(ग) उपकारिण + ई
(घ) उपकार + णिनी
उत्तरत:
(क) उपकारिण + ङीप्
(v) नारिकेलफलं कठोरत्वम् को न जानाति।
(क) कठोर + त्व
(ख) कठोर + त्वं
(ग) कठोर + त्वां
(घ) कठोर + तुं
उत्तरत:
(क) कठोर + त्व।
8. चेटी वसन्तसेना च वार्तालापं कुरुतः। चेटी कर्तृवाच्ये वसन्तसेना कर्मवाच्ये वदति । वाच्यानुसारं रिक्तस्थानानि पूरयत । (1 × 3 = 3)
(केवलं प्रश्नत्रयम्)
(i) चेटी – वसन्तसेने ! उक्राष्ठतु
(क) भवति
(ख) भवती
(ग) भवतीम्
(घ) भवत्या
उत्तरत:
(क) भवती
(ii) वसन्तसेना-कुत्र गन्तव्यम् ?
(क) माम्
(ख) मया
(ग) मयि
(घ) त्वया
उत्तरत:
(ख) मया
(iii) चेटी – यत्र चारुदत्तः
(क) सन्ति
(ख) स्तः
(ग) अस्ति
(घ) अस्मि
उत्तरत:
(ग) अस्ति
(iv) वसन्तसेना – चेटी ! मया अपि तत्र
(क) गच्छति
(ख) गम्यते
(ग) गमिष्यामि
(घ) गम्येते
उत्तरत:
(ख) गम्यते।
9. अधोलिखितवाक्येषु अङ्कानां स्थाने समयसूचक संस्कृतसंख्यापदानि लिखत । (केवलं प्रश्नचतुष्टयं) (1 × 4 = 4)
मैट्रोरेलयानस्य – प्रस्थान – समय सारिणी-
मैट्रोरेलयानम्
(i) …………. (10:00) वादने शाहदरा मैट्रोरेल स्थानके तिष्ठति ।
(ii) …………. (10:15) वादने राजीव चौकम् आगच्छति।
(iii) …………. (10:30) वादने कश्मीरी द्वारम् आगच्छति ।
(iv) …………. (11:45) वादने द्वारकारेलस्थानके आगच्छति ।
(v) …………. (09:30) नई दिल्लीतः आगच्छति ।
उत्तरत:
(i) दश
(ii) सपाददश
(iii) सार्धदश
(iv) पादोन-द्वादश
(v) सार्धनव।
10. अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयित्वा वाक्यानि उत्तरपुस्तिकायाम् लिखत । सहायतायै मञ्जूषा प्रदत्ता। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) व्याघ्रोऽपि …………. नष्टः गलबद्धः शृगालकः ।
(ii) यत्रास्ते साधूर्ता ……………… गम्यताम्।
(iii) स: दीन : इति जानन् ………….. कृषक: तं बहुधा पीडयति ।
(iv) यदा मेघाः गर्जन्ति …………… वर्षा भवति ।
मञ्जूषा – तदा, अपि, तत्र, सहसा
उत्तरत:
(i) सहसा
(ii) तत्र
(iii) अपि
(iv) तदा।
11. अधोलिखितवाक्येषु रेखाङ्कितं पदम् अशुद्धम् अस्ति । प्रदत्तविकल्पेषु शुद्धम् उत्तरं चित्वा वाक्यं पुनः लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) यूयं पाठं पठति ।
(क) पठथ
(ख) पठसि
(ग) पठन्ति
(घ) पठथः
उत्तरत:
(क) पठथ
(ii) वृक्षे अनेकानि आम्रम् सन्ति ।
(क) आम्रे
(ख) आम्रस्य
(ग) आम्राणि
(घ) आम्रेषु
उत्तरत:
(ग) आम्राणि
(iii) अयम् मम सखी अस्ति ।
(क) इदम्
(ख) इयम्
(ग) एतत्
(घ) सः
उत्तरत:
(ख) इयम्
(iv) राधा श्वः मम गृहम् आगच्छत् ।
(क) आगमिष्यति
(ख) आगच्छति
(ग) आगमिष्यति
(घ) आगच्छथ
उत्तरत:
(ग) आगमिष्यति ।
खण्ड ‘घ’ : पठित-अवबोधनम्
(30 अङ्काः)
12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)
स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं विशम्य मुदित आरक्षी तमुवाच – ‘रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लफ्यसे’ इति प्रोच्य उच्चैः अहसत् ।
यथाकथञ्चिद उभौ शवमानीय चत्वरे स्थापितवन्तौ ।
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत, स शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् – मान्यवर । एतेन आरक्षिणा अध्वनि यदुक्तं वर्णयामि, ‘त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः, अत: निजकृत्वस्य फलं भुङ्क्ष्व । अस्मिन् चौर्यभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति ।
प्रश्ना:
अ. एकपदेन उत्तरत- (केवल प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) अभियुक्तः कया क्रन्दति स्म
(ख) कः उच्चै अहसत् ?
(ग) उभौ शवमानीय कुत्र स्थापितवन्तौ ?
उत्तरत:
(क) भारवेदनया
(ख) आरक्षी
(ग) चत्वरे ।
आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 × 2 = 2)
(क) क्रन्दनं निशम्य मुदित: आरक्षी किम् उवाच ?
(ख) केन पुनस्तौ घटनायः विषये वक्तुमादिष्टौ ?
(ग) यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा किम् आश्चर्यमघटत ?
उत्तरत:
(क) क्रन्दनं निशम्य मुदित: आरक्षी उवाच्-यत्-तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्य अभियोगे वर्षयस्यय कारादण्डं लप्स्यसे’ इति ।
(ख) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ ।
(ग) यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा एतत् आश्र्चमघटत सः शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् ।
इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलप्रश्नद्वयम् ) (1 × 2 = 2)
(क) ‘सः भारवेदनया क्रन्दति स्म’ अत्र किं क्रियापदं प्रयुक्तं ?
(ख) ‘प्राप्स्यसे’ इत्यर्थे कः पर्यायः प्रयुक्तः ?
(ग) ‘तस्य क्रन्दनं विशम्य मुदित आरक्षी तमुवाच’ अत्र किं विशेषण पदं प्रयुक्तं ?
उत्तरत:
(क) क्रन्दति स्म
(ख) लप्स्यसे
(ग) मुदित ।
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
रेरे चातक ! सावधानमसा मिश्र क्षणं श्रूयत ।
मम्भेदा बहवो कि सन्ति गगने सर्वेऽपि नैतादृशाः ।
केविद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचित् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।।
प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) ‘सावधानमसा क्षणं मम वार्तां श्रूयताम्’ मेघः केन कथयतिं ?
(ख) गगने एतादृशः के न सन्ति ?
(ग) काभिः वसुधां मेघा : आर्द्रयन्ति ?
उत्तरत:
(क) चातकेन
(ख) अम्भोदाः
(ग) वृष्टिभिः ।
आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) अम्भोदः वृष्टिभिः काम् आर्द्रयन्ति ?
(ख) यं यं पश्यसि तस्य तस्य पुरतः कीदृशं वचः मा ब्रूहि ?
(ग) गगने केचिद् वृथाः गर्जन्ति ?
उत्तरत:
(क) अम्भोदाः वृष्टिभिः वसुधाम् आर्द्रयन्ति।
(ख) यं यं पश्यसि तस्य तस्य पुरतः दीनं वचः मा ब्रूहि ।
(ग) गगने मेघा : वृथाः गर्जन्ति ।
इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)
(क) ‘अम्भोदः, वृष्टिभिः वसुधाम् आर्द्रयन्ति’ अत्र कः कर्तृपदं प्रयुक्तं ‘ ।
(ख) ‘पृथ्वीम्’ इत्यर्थे कः पर्यायः प्रयुक्तः ?
(ग) ‘पाताले’ अस्य पदस्य कः विलोम प्रयुक्तं ?
उत्तरत:
(क) अम्भोदः
(ख) वसुधां
(ग) गगने ।
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
प्रकृतिमाता – अहं प्रकृतिः युष्माकं सर्वेषां जननी ? यूयं सर्वे एव मे प्रियाः । सर्वेषामेव मत्कृते महत्त्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्। तद्यथा कथितम्-
प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम् ॥
अपि च-
अगाधजलसञ्चारी न गर्वं याति रोहितः ।
अङ्गुष्ठोदकमात्रेण शफरी फुर्कुरायते ॥
अतः भवन्तः सर्वेऽपि शफरीवत् एकैकस्य गुणस्य चर्चां विहाय मिलित्वा प्रकृतिसौन्दर्याय वनरक्षायै च प्रयतन्ताम् । सर्वे प्रकृतिमातरं प्रणमन्ति मिलित्वा दृढसंकल्पपूर्वकं च गायन्ति-
प्राणिनां जायते हानिः परस्परविवादतः ।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते ॥
प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) का अस्माकं सर्वेषां जननी ?
(ख) केन समयं वृथा न यापयन्तु ?
(ग) के प्रकृतिमातरं प्रणमन्ति ?
उत्तरत:
(क) प्रकृतिमाता
(ख) कलहेन
(ग) सर्वे ।
आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) शफरी केन फुर्फुरायते ?
(ख) केषाम् एव मत्कृते महत्वं विद्यते ?
(ग) राज्ञः हितम् कस्मिन् अस्ति ?
उत्तरत:
(क) शफरी अङ्गुष्ठोदक मात्रेण फुर्फुरायते।
(ख) सर्वेषामेव मत्कृते महत्वं विद्यते।
(ग) राज्ञः हितम् प्रजासुखे अस्ति ।
इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)
(क) ‘गच्छति’ इत्यर्थे अत्र कः पर्यायपदं प्रयुक्तः ?
(ख) ‘महत्वं’ पदे कः प्रत्ययः प्रयुक्तः ?
(ग) ‘कलहेन समयं वृथा यापयन्तु’ इति वाक्ये क : अव्ययपदं प्रयुक्तः ?
उत्तरत:
(क) याति
(ख) त्व
(ग) वृथा।
15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(क) धेनूनां माता सुरभिः आसीत् ।
(ख) पुरा त्वया मह्यम् व्याघ्रत्रयं दत्तम् ।
(ग) त्वं मानुषात् विभेषि ।
(घ) उद्याने पक्षिणाम् कलरवः चेतः प्रसादयति ।
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते ।
उत्तरत:
(क) कासाम् माता सुरभिः आसीत् ?
(ख) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम् ?
(ग) त्वं कस्मात् विभेषि ?
(घ) कुत्र पक्षिणाम् कलखः चेतः प्रसादयति ?
(ङ) कस्याः सन्निधौ वास्तविकं सुखं विद्यते ?
16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्यः अन्वयं पूरयत- (1 × 4 = 4)
रे रे धूर्त त्वया दत्तं मह्यम व्याघ्रत्रयं पुरा ।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना ।।
इत्युक्त्वा धविता तूर्णं व्याघ्रमारी भयङ्करा ।
व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः ।।
अन्वयः – रे रे धूर्त ! त्वया मह्यम् पुरा (i) ………….. दत्तम् । विश्वास्य (अपि) अद्य एकम् (ii) …………. कथं यासि इति अध्ुना वद। इति उक्त्वा भयङ्करा व्याघ्रमारी (iii) ………… धाविता । (iv) ………… व्याघ्रः अपि सहसा नष्टः।
मञ्जूषा- गलबद्ध शृगालक, व्याघ्रत्रयम्, तूर्णं, आनीय
उत्तरत:
(i) व्याघ्रत्रयम्
(ii) आनीय
(iii) तूर्णं
(iv) गलबद्धशृगालकः ।
अथवा
मञ्जूषाया साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत्- (1 × 4 = 4)
श्लोक :- गुणी गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः, करी च सिहंस्य बलं न मूषकः ।।
भावार्थ–गुणवान् जनः एव (i) ………….. महत्त्वं जानाति । गुणहीनः गुणानां महत्त्वं न अवगच्छति। तथैव (ii) ………….. जनः बलस्य महत्त्वं जानाति परन्तु दुर्बल: बलस्य महत्त्वं न अवगच्छति । वसन्त ऋतो : महत्त्वं कोकिलः एव सम्यग् (iii) ………….. शक्नोति न तु काकः । एवमेव गजः सिंहस्य (iv) ………….. महत्त्वं जानाति । मूषकः तस्य शौर्यम् अवगन्तुं न शक्नोति।
मञ्जूषा- अवगन्तुम्, बलवान्, पराक्रमस्य, गुणानाम्
उत्तरत:
भावः – गुणवान् जनः एव (i) गुणानां महत्त्वं जानाति । गुणहीनः गुणानां महत्त्वं न अवगच्छति । तथैव (ii) बलवान् जनः बलस्य महत्त्वं जानाति परन्तु दुर्बल: बलस्य महत्त्वं न अवगच्छति । वसन्त्-ऋतो: महत्त्वं कोकलः एवं सम्यग् (iii) अवगन्तुं शक्नोति न तु काकः। एवमेव गजः सिहंस्य (iv) पराक्रमस्य महत्त्वं जानाति । मूषकः तस्य शौर्यम् अवगन्तुं न शक्नोति ।
17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (1/2 × 8 = 4)
(क) तर्हि त्वया अहं हन्तव्यः इति ।
(ख) व्याघ्रः त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ?
(ग) गच्छ, गच्छ जम्बुक । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकर जीवितो नष्टः शीघ्रं तदग्रतः ।
(ङ) स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम् ।
(च) त्वमपि किञ्चिद् गूढप्रदेशम् ।
(छ) व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि ।
(ज़) प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा ।
उत्तरत:
(क) गच्छ, गच्छ जम्बुक ।
(ख) त्वमपि किञ्चिद् गूढप्रदेशम् ।
(ग) यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकर जीवितो नष्टः शीघ्रं तदग्रतः । व्याघ्रः! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ।
(ङ) प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
(च) स्वामिन् । यत्रास्ते सा धूर्ता तत्र गम्यताम्।
(छ) व्याघ्रः ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि ।
(ज़) तर्हि त्वया अहं हन्तव्यः इति ।
18. अधोलिखितानां कथनानां पर्यायपदं विकल्पेभ्यः चित्वा लिखित – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) विमूढधीः धर्मप्रदाम् वाचं परित्यजति।
(क) मधुराम्
(ख) कठोराम्
(ग) वार्णी
(घ) हितकारी
उत्तरत:
(क) मधुराम्
(ii) अस्मिन् लोके विद्वांस एव चक्षुष्मन्तः प्रकीर्तिताः ।
(क) नेत्रवान्
(ख) नेत्रवन्तः
(ग) नेत्रहीन:
(घ) नेत्रवत्
उत्तरत:
(ख) नेत्रवन्त:
(iii) सः विवेकः इति ईरितः ।
(क) प्रेरित:
(ख) प्रेरणा
(ग) प्रेरयति
(घ) प्रेरणा
उत्तरत:
(क) प्रेरित:
(iv) अनृतं वदसि चेत् काक: दर्शत् ।
(क) असत्यं
(ख) सत्यं
(ग) ऋतं
(घ) मिथं
उत्तरत:
(क) असत्यं ।