Practicing the CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 1 allows you to get rid of exam fear and be confident to appear for the exam.
CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions
समय: 3 होराः
पूर्णांक: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
प्रश्नपत्रस्वरूपम् –
‘क’ खण्ड: : अपठितावबोधनम् (10 अङ्काः)
‘ख’ खण्ड: : रचनात्मककार्यम् (15 अङ्काः)
‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
‘घ’ खण्ड: : पठितावबोधनम् (30 अङ्काः)
खण्ड ‘क’ : अपठितावबोधनम्
(10 अङ्काः)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)
पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन् । तेषु दुष्यन्तः नाम एकः नृपः आसीत् । तस्य भार्या शकुन्तला आश्रमे पुत्रम् अजनयत्। तस्य नाम भरतः आसीत् । भरतः शैशवास्थायाम् अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम् उद्घाटयत् अवदत् च-‘जृम्भस्व सिंह ! दन्तान् ते गणयिष्यामि ।’ सिंहशावक : अपि जानाति स्म यत् भरत: अपि या सदृशः शिशु अस्तिः, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत् । तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म – नाहं सिंहात् बिभेमि । इत्थम् आसीत् सः निर्भयः वीर : भरतः । भरतस्य अभिधानेन एवं अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्’ अभवत् ।
प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् ) (1 × 2 = 2)
(i) निर्भयः वीर च कः आसीत् ?
उत्तराणि:
भरतः
(ii) भरत: कै: सह क्रीडति स्म ?
उत्तराणि:
सिंहशावकैः
(iii) भरतस्य मातुः नाम किम् आसीत् ?
उत्तराणि:
शकुन्तला
आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) भरतः सिंहशावकं किम् अवदत् ?
उत्तराणि:
भरतः सिंहशावकम् अवदत् – ‘नृत्म्स्व सिंह ! दन्तान् ते गणयिष्यामि इति ।
(ii) सिंहशावक : भरताय किमर्थं नाक्रुध्यत् न च आक्राम्यत् ?
उत्तराणि:
सिंहशावक : अपि जानाति स्म यत भरतः अपि मया सदृशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत् ।
(iii) भरत: तापस्यौ किं कथयति स्म ?
उत्तराणि:
भरतः तापस्यौ कथयति स्म – नाहं सिंहात् बिभेमि इति ।
इ. उपयुक्तं शीर्षक – (1 × 1 = 1)
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
उत्तराणि:
वीर : भरतः, भरतेन भारतम् भरतस्य निर्भयता / वीरता ।
छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः।
ई. यथानिर्देशम् उत्तरत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) ‘इत्थम् आसीत् सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम् ?
(क) इत्थम्
(ख) आसीत्
(ग) निर्भयः
(घ) वीरः
उत्तराणि:
(ख) आसीत्
(ii) ‘सदृश:’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः
उत्तराणि:
(घ) शिशुः
(iii) ‘नृपा:’ इति पदस्य किं पर्यायपदं गघांशे प्रयुक्तम ?
(क) सिंहशावक :
(ख) दन्तान्
(ग) राजानः
(घ) प्रसिद्धाः
उत्तराणि:
(ग) राजानः
(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत् ?
(क) अहम्
(ख) ते
(ग) सः
(घ) दन्तान्
उत्तराणि:
(क) अहम्
‘रखण्ड ‘ख’ : रचनात्मकं कार्यम्
(15 अङ्काः)
2. भवान् जयपुरवासी राजेन्द्रः अस्ति । स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखतः । (1/2 × 10 = 5)
जयपुरतः
दिनाङ्कः ………..
प्रियमित्र मुकेश !
सस्नेहं (i) ………. ।
अत्र कुशलं तत्रास्तु। भवान् इदं (ii) ………… अत्यधिकः प्रसन्न भविष्यति यत् मम (iii) …………. दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेद्प्रकाशस्य पुत्रेण (iv) ………… सह दिसम्बर-मासस्य एकादशतिथौ निश्चित: जात: । (v) …………. सायं सप्तवादने आगमिष्यति । अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमन्त्रितः । भवता स्वपरिवारेण सह विवाहतः (vi) ………….. पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) …………… अपि करणीयम्। भवतः उपस्थिति (viii) ………….. उत्साहं विश्वासं च वर्धिष्यते। इतोऽपि भवतः जयपुरदर्शनस्य इच्छासिद्धिः अपि (ix) …………. । गृहे पितृभ्यां मम प्रणामाः ।
भवत: (x) ………..
राजेन्द्रः
मञ्जूषा
भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्, भगिन्याः, अभिन्नहृदयः, त्रिदिनानि, ज्ञात्वा
उत्तराणि:
जयपुरतः
दिनाङ्कः 07/07/2022
प्रियमित्र मुकेश !
सस्नेहं (i) नमः ।
अत्र कुशलं तत्रास्तु । भवान् इदं (ii) ज्ञात्वा अत्यधिकः प्रसन्न भविष्याति यत् मम (iii) भगिन्याः दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेद्प्रकाशस्य पुत्रेण (iv) राकेशेन सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) वरयात्रा सायं सप्तवादने आगमिष्यति । अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमन्त्रितः । भवना स्वपरिवारेण सह विवाहत : (vi) त्रिदिनानि पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) सहाय्यम् अपि करणीयम्। भवतः उपस्थिति (viii) मम उत्साहं विश्वासं च वर्धिष्यते । इतोऽपि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) भविष्यति । गृहे पितृभ्यां मम प्रणामाः ।
भवत: (x) अभिन्नहृदयः
राजेन्द्र :
3. प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
मञ्जूषा
क्रीडन्ति, उद्यानस्य, भ्रमन्ति, पुष्पाणि, वृक्षाः, बालाः, चित्रकार्यम्, हरीतिमा, दोलयतः ।
अथवा
मञ्जूषा प्रदत्तशब्दानां सहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत- (1 × 5 = 5)
“वायुप्रदूषणम्”
मञ्जूषा
स्वास्थ्यम्, पर्यावरणस्य, रक्षकाः उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः ।
उत्तराणि:
चित्रवर्णनम् –
अत्र छात्रेभ्य: संक्षिप्तवाक्यरचना अपेक्षिता वर्तते । केवलं वाक्यशुद्धिः द्रष्टव्या । अस्य प्रश्नस्य प्रमुखम् उद्देश्यं वाक्यरचना अस्ति । वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति । प्रतिवाक्यम् अर्धः अङ्कः भावस्य कृते अर्ध: अङ्कः च व्याकरणदृष्ट्या शुद्धतानिमित्तं निर्धारितः अस्ति। मञ्जूषायां प्रदत्ताः शब्दाः सहायतार्थं सन्ति। छात्रः तेषां वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शन्कोति । मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते । (1) इदम् चित्रम् उद्यानस्य वर्तते ।
(2) अत्र अनेके बालकाः कन्दुकेन क्रीडन्ति ।
(3) अत्र अनेकानि पुष्पाणि विकसन्ति ।
(4) सर्वत्र हरीतिमा दृश्यते ।
(5) उद्याने अनेके वृक्षाः दृश्यन्ते ।
अथवा
अनुच्छेद लेखनम्
अयं विकल्पः सर्वेभ्यः अस्ति। छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शन्कुवन्ति । अतः अङ्काः देयाः। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः।
(1) अत्र वाहनानां धूम्रः प्रदूषितं पर्यावरणम् प्रदूषितं कुर्वन्ति ।
(2) वायुप्रदूषणं निवारीयतुम् वृक्षारोपणं कुर्यात् ।
(3) अस्मान् पर्यावरणस्य रक्षार्थ पूर्णरूपेण प्रयत्नं कुर्युः।
(4) उद्योगानाम् निःसृतं धूम्रेण अनेके श्वासरोगाः भवन्ति ।
(5) पर्यावरणस्य संरक्षणम् एवं प्रकृतेः आराधना अस्ति ।
4. अधोलिखितानि वाक्यानि संस्कृत भाषया अनूद्य लिखत – (केवलं वाक्यपञ्चकम्) (1 × 5 = 5)
(1) उसने संस्कृतपुस्तक पढ़ी।
(2) मेरे घर के पास विद्यालय है ।
(3) बसन्त सभी ऋतुओं में श्रेष्ठ है ।
(4) बच्चों ! तुम सब उधर मत जाओ।
(5) छात्र कक्षा में भोजन नहीं करेंगे।
(6) शिवाजी शक्तिमान् राजा था।
(7) भारतीय संस्कृति विश्व में प्रसिद्ध है।
1. He read Sanskrit Book.
2. The school is near my house.
3. Spring is the best among all seasons.
4. Children! do not go that side.
5. Students will not eat in class..
6. Shivaji was a mighty king.
7. Indian culture is famous in the world.
उत्तराणि:
(1) स: / सा संस्कृतपुस्तकम् अपठत् / पठितवान् / पठितवती ।
(2) मम गृहस्य समीपे विद्यालयः अस्ति ।
(3) वसन्तः सर्वेषु ऋतषु श्रेष्ठः अस्ति ।
(4) भो बाला :/ बालकाः ! यूयं तत्र मा गच्छत।
(5) छात्राः कक्षायां भोजनं न करिष्यन्ति ।
(6) शिवाजी शक्तिमान् राजा/नृपः आसीत्।
(7) भारतीया संस्कृतिः विश्वे प्रसिद्धा अस्ति ।
खण्ड ‘ग’ : अनुप्रयुक्त-व्याकरणम्
(25 अङ्काः)
5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) सङ्कोचमञ्चति सरः + त्वयि दीनदीनो ।
(ii) ते चक्षुर्नामनी मते ।
(iii) सः कृच्छ्रेण भारम् उत् + वह्ति।
(iv) पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।
(v) किं नामधेयः + भवतो: गुरु ?
उत्तराणि:
सन्धि / सन्धिविच्छेदः
(i) सरस्त्वयि
सरस्त्वयि – ‘सत्व’ सन्धि नियमानुसार यदि विसर्ग के वाद ‘त्’ हो तो विसर्ग के स्थान पर ‘स्’ हो जाता है। सरः + त्वयि में विसर्ग (:) के बाद ‘त्’ आया, अतः यहाँ विसर्ग का ‘स्’ होने पर सन्धियुक्त पद ‘ सरस्त्वयि उचित है।
(ii) चक्षुः + नामनी
चक्षुः + नामनी – ‘सत्व’ सन्धि नियमानुसार ‘अ’ ‘आ’ से भिन्न विसर्गयुक्त स्वर के बाद पंचम वर्ण (न्) आने पर यहाँ विसर्ग को ‘र’ हो जाता है यथा – चक्षुर्नामनी / अतः सन्धिच्छेद चक्षुः नामनी उचित है।
(iii) उद्वहति
उद्वहति – ‘चर्त्व’ सन्धि नियमानुसार यदि किसी वर्ण का पहला वर्ग हो तो उसे उसी वर्ग का तृतीय वर्ण हो जाता जैसे—‘उत् + वहति’ में ‘त्’ वर्ग के प्रथम वर्ण ‘त्’ को तृतीय वर्ण ‘द्’ हो जाता है, अत: उत्तर सन्धियुक्त शब्द ‘उद्वहति‘ उचित रहेगा।
(iv) स्यात् + न
स्यात् + न – ‘ ‘अनुनासिक सन्धि’ नियमानुसार यदि वर्ग के प्रथम वर्ण के बाद कोई अनुनासिक वर्ण (ङ्, ञ्, ण्, न्, म्) हो तो प्रथम वर्ण को पंचम वर्ण विकल्प से हो जाता है। अतः स्यात् (शब्द) में ‘तवर्ग’ के प्रथम वर्ण ‘तू’ के बाद अनुनासिक वर्ण ‘न्’ आया है तो ‘त्’ को पंचम वर्ण (अनुनासिक) ‘न्’ हो जाता है अतः सन्धियुक्त शब्द ‘स्यान्न’ का संधिच्छेद ‘स्यात् + न‘ उचित रहेगा।
(v) नामधेयो भवतो:
नामधेयो भवतो: – ‘उत्व’ सन्धि नियमानुसार यदि विसर्ग से पूर्व ‘अ’ हो और बाद में किसी भी वर्ग का तीसरा, चौथा तथा पाँचवाँ वर्ण हो तो विसर्ग (:) ‘अ:’ का ‘ओ’ हो जाता है यथा – नामधेयः + भवतों सन्धिच्छेदयुक्त शब्द में ‘यः’ का ‘यो’ हो जाता है, अत: उत्तर नामधेयोभवतो: उचित है।
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) सर्वथा समरूप: कुटुम्बवृतान्तः।
(क) कुटुम्बः वृतान्तः
(ख) कुटुम्बाय वृतान्तः
(ग) कुटुम्बस्य वृतान्तः
(घ) कुटुम्बम् वृतान्तम्
उत्तराणि:
(ग) कुटुम्बस्य वृतान्तः
(ग) कुटुम्बस्य वृत्तान्तः – ‘समास में कुटुम्ब का वृत्तान्त’ कारक चिन्हानुसार ‘का’ में षष्ठी विभक्ति का प्रयोग होता है अतः षष्ठीतत्पुरुष समास में प्रथम शब्द षष्ठी विभक्ति में ‘कुटुम्बस्य‘ होगा अतः विकल्प (ग) उचित रहेगा।
(ii) समानं शीलं व्यसनं येषां तेषु सख्यम्।
(क) समानशीलव्यसनेषु
(ख) समानशीलव्यसनम्
(ग) समानशीलव्यसनानि
(घ) समानशीलव्यसनेभ्यः
उत्तराणि:
(क) समानशीलव्यसनेषु
(क) समान शील व्यसनेषु – समास में विशेषण – विशेष्य का सम्बन्ध है अतः यहाँ कर्मधारय समास होता है। इसमें प्रथम दो शब्द प्रथमा विभक्ति में रहते है अन्य पद किसी और विभक्ति में रहता है, अतः यहाँ सामासिक पद ‘समान शील व्यसनेषु‘ विकल्प (क) सही रहेगा।
(iii) न हि निर्मलं जलम्
(क) मलस्य योग्यम्
(ख) मलस्य अभावः
(ग) मलं प्रति
(घ) मलम् अनतिक्रम्य
उत्तराणि:
(ख) मलस्य अभावः
(ख) मलस्य अभावः – समास में अभाव अर्थ में ‘निर्’ अव्यय का प्रयोग होता है। समास विग्रह में उत्तर पद में षष्ठी विभक्ति लगाकर पश्चात् ‘अभाव’ शब्द लिखा जाता है अतः यहाँ निर्मलं समास में विग्रह ‘मलस्य अभाव:‘ विकल्प (ख) उचित रहेगा।
(iv) व्याघ्रचित्रकौ नदीजलं पातुम् आगतौ।
(क) व्याघ्रौ चित्रकौ च
(ग) व्याघ्रौ च चित्रकः च
(ख) व्याघ्रः च चित्रकौ च
(घ) व्याघ्रः च चित्रक: च
उत्तराणि:
(घ) व्याघ्रः च चित्रक: च
(घ) व्याघ्रः च चित्रकः च- – एकशेष द्वन्द समास में दोनों शब्द पुल्लिंग होने पर विग्रह में प्रत्येक पद के बाद ‘च’ का प्रयोग किया जाता है, अत: विकल्प (घ) व्याघ्रः च चित्रकः च उचित रहेगा।
(v) स: वृषभं च वृषभं च नीत्वा गृहमगात् ।
(क) वृषभाः
(ख) वृषभान्
(ग) वृषभौ
(घ) वृषभाभ्याम्
उत्तराणि:
(ग) वृषभौ
(ग) वृषभौ – एक शेष द्वन्द समास में सामासिक पद वृषभौ द्विवचन में प्रयुक्त हुआ है, क्योंकि वृषभ: च वृषभ: च समास विग्रह का सामासिक पद वृषभः द्विवचन में प्रयुक्त होगा अतः विकल्प (ग) वृषभौ उचित रहेगा।
7. अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य चित्वा लिखत । (केवलं प्रश्नचतुष्टयं) (1 × 4 = 4)
(i) किं कुपिता एवं भणति ?
(क) कुपिता + टाप्
(ख) कुपित + टाप्
(ग) कुपितः + ङीप्
(घ) कुपित + इक्
उत्तराणि:
(ख) कुपित + टाप्
(ख) कुपित + टाप् – पुल्लिंग को स्त्रीलिङ्ग बनाने में ‘टाप्’ प्रत्यय का प्रयोग किया जाता है इसका ‘आ’ रूप ही शेष रहता है। अतः यहाँ ‘कुपित’ शब्द का कुपित + टापू विकल्प (ख) सही है।
(ii) बुद्धि + मतुप् सा भयात् विमुक्ता ।
(क) बुद्धिवान्
(ख) बुद्धिमानः
(ग) बुद्धिमान्
(घ) बुद्धिमती
उत्तराणि:
(घ) बुद्धिमती
(घ) बुधिमती – संज्ञा शब्द से यह प्रत्यय जोड़ा जाता है ‘मतुप्’ प्रत्यय से युक्त शब्द विशेषण होता है एवं इसमें ‘मत्’ शेष रहता है। प्रत्यय युक्त शब्द से निर्मित शब्द स्त्रीलिङ्ग में बुद्धिमती विकल्प (घ) उचित रहेगा।
(iii) तदेव सम + त्व कथ्यते ।
(क) समत्वम्
(ख) समत्वः
(ग) समता
(घ) समत्त्वम्
उत्तराणि:
(क) समत्वम्
(क) समत्वम्-भाववाचक संज्ञा बनाने हेतु ‘त्व’ प्रत्यय प्रयुक्त होते है । ‘त्व’ प्रत्ययान्त शब्द नपुंसकलिंङ्ग एक वचन के रूप में प्रयुक्त होता है। जैसे- सम + त्व से युक्त शब्द में समत्वम् विकल्प (क) उचित रहेगा। क्योंकि संमत्वम् शब्द नपुंसकलिंङ्ग एकवचन में है।
(iv) जना: प्रात: दिन + ठक् समाचारपत्रं पठन्ति ।
(क) दैनिकः
(ख) दैनिकी
(ग) दैनिकम्
(घ) दैनिका:
उत्तराणि:
(ग) दैनिकम्
(ग) दैनिकं – ‘ठक्’ प्रत्यय के स्थान पर ‘इक’ हो जाता है ठक् प्रत्यय परे रहते शब्द के प्रथम स्वर की वृद्धि हो जाती है । ठक् प्रत्ययान्त शब्द विशेषण की तरह प्रयुक्त होते हैं अतः यहाँ दिन + ठक् को दिन शब्द की वृद्धि होकर दैनिकं विकल्प (ग) उचित रहेगा।
(v) सम्पत्तौ विपत्तौ च महताम् एकरूपता।
(क) एकरूप + त्व
(ख) एकरूप + तल्
(ग) एकरूपत + टाप्
(घ) एकरूप + ता
उत्तराणि:
(ख) एकरूप + तल्
(ख) एकरूप + तल- भाववाचक संज्ञा बनाने हेतु ‘तल्’ प्रत्यय का होता है। इसमें ‘तल्’ के स्थान पर ‘ता’ जुड़ता है। यह शब्द स्त्रीलिङ्ग में प्रयुक्त होता है, अत: ‘एकरूपता’ शब्द में विकल्प (ख) एकरूप + तल उचित रहेगा।
8. वाच्यानुसारम् उचित पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) मालिका प्रतिष्ठे ! किं त्वं संस्कृतस्य विज्ञानप्रदर्शनीं द्रष्टुं …………… ?
(क) गम्यते
(ख) गच्छति
(ग) गच्छसि
(घ) गच्छामि
उत्तराणि:
(ग) गच्छसि
(ग) गच्छसि – कर्तृवाच्य में क्रिया कर्ता के अनुसार प्रयुक्त होती है, यहाँ कर्तृपदं ‘त्वम्’ है, इसलिए क्रिया मध्यम पुरुष एक वचन में ही प्रयुक्त होगी। विकल्प ( ग ) ‘गच्छसि‘ सही है।
(ii) प्रतिष्ठान मालिके ! ……………. तत्र न गम्यते ।
(क) मया
(ख) अहम्
(ग) त्वया
(घ) आवाम्
उत्तराणि:
(क) मया
(क) मया – कर्मवाच्य में कर्ता में तृतीया विभक्ति का प्रयोग होता है, अत: वाक्य में विकल्प (क) मया उचित प्रयुक्त किया गया है ।
(iii) मालिका – अधुना त्वया गृहे किं …………. ?
(क) क्रियन्ते
(ख) करोषि
(ग) करोति
(घ) क्रियते
उत्तराणि:
(घ) क्रियते
(घ) क्रियते – कर्मवाच्य में क्रिया कर्म के अनुसार आत्मनेपद में जाती है, यहाँ कृ धातु आत्मनेपद में प्रथम पुरुष वचन के अनुसार विकल्प (घ) क्रियते उचित प्रयुक्त की गई है।
(iv) प्रतिष्ठा – श्वः मम परीक्षा भविष्यति अतः मया अधुना ……………. पठयन्ते ।
(क) पुस्तकम्
(ख) पुस्तकानि
(ग) पुस्तकै :
(घ) पुस्तके
उत्तराणि:
(ख) पुस्तकानि
(ख) पुस्तकानि – कर्मवाच्य में कर्म में प्रथमा विभक्ति प्रयुक्त होती है, क्रिया कर्म की विभक्ति वचन के अनुसार प्रयुक्त की जाती है। यहाँ क्रिया ‘पढ्यन्ते’ प्रथम पुरुष बहुवचन की है, क्रिया के अनुसार कर्म ‘ पुस्तकानि’ भी प्रथमा विभक्ति बहुवचन में प्रयुक्त किया जाएगा, अत: उत्तर विकल्प (ख) पुस्तकानि सही है।
9. कालबोधशब्दैः अधोलिखित- दिनचर्यां पूरयत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) मम माता प्रात: …………… 4:15 वादने उत्तिष्ठति ।
(ii) सा …………… 5:00 वादने योगाभ्यासं करोति ।
(iii) तदन्तरम् सा स्रात्वा ………… 6:45 वादने भोजनं पचति ।
(iv) भोजनं गृहीत्वा अहम् ………… 7:30 वादने विद्यालयं गच्छामि ।
(v) अहम् ………. 2:00 वादने आगत्य पुनः भोजनं करोमि ।
उत्तराणि:
(i) सपाद-चतुर्वादने
सपाद-चतुर्वादने – संस्कृत में बजे के लिए ‘वादन’ शब्द का ‘सपाद’ (स+पाद) के लिए सवा का एवं चतुर् के लिए चार का प्रयोग होता है, अतः समय 4.15 के लिए के लिए उत्तर ‘सपाद – चतुर्वादने‘ सही है ।
(ii) पञ्चवादने
पञ्चवादने – संस्कृत में पाँच के लिए ‘पञ्च’ प्रयोग किया जाता है, अतः 5.00 बजे के लिए उत्तर पञ्चवादने सही है।
(iii) पादोन-सप्तवादने
पादोन-सप्तवादने – संस्कृत में पौने के लिए पादोन (पाद + ऊन) शब्द का एवं सात के लिए ‘सप्त’ का प्रयोग किया जाता है, अतः समय 6.45 के लिए उत्तर पादोन- सप्तवादने उचित है।
(iv) सार्ध-सप्तवादने
सार्ध-सप्तवादने – संस्कृत में आधे के लिए सार्ध ( स + अर्ध) प्रयोग किया जाता है, अतः समय 7.30 के लिए सार्ध-सप्तवादने सही है।
(v) द्विवाद
द्विवादने – संस्कृत में दो के लिए द्वि प्रयोग किया जाता है, अतः समय 2.00 के लिए द्विवादने उचित है।
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत – (केवल प्रश्नत्रयम्) (1 × 3 = 3)
(i) केचिद् अम्भोदा: …………… गर्जन्ति ।
(ii) यदि अहं कृष्णवर्णः ………….. त्वं किं गौराङ्ग ?
(iii) अयं प्रवास: अतिदीर्घः दारुणः …………….
(iv) भवान् ……………. भयात् पलायित: ?
मञ्जूषा – च, वृथा, कुत:, तर्हि
उत्तराणि:
(i) वृथा
वृथा – ‘वृधा’ अव्यय का अर्थ ‘बेकार’ या ‘व्यर्थं’ है, अतः हिन्दी अर्थानुसार यहाँ ‘वृथा’ अव्यय का ही प्रयोग होगा जैसे- कुछ बादल व्यर्थ गरजते हैं, अत: उत्तर ‘वृथा’ सही प्रयुक्त है।
(ii) तर्हि
तर्हि – ‘तर्हि’ अव्यय का अर्थ ‘तो’ होता है और ‘यदि’ के साथ हमेशा ‘तर्हि’ का प्रयोग किया जाता है । अत: उत्तर ‘तर्हि‘ बिल्कुल सही है।
(iii) च
च – ‘च’ अव्यय का अर्थ ‘ और’ होता है, हिन्दी अर्थानुसार यह प्रवास अत्याधिक लम्बा और कठिन है, अतः यहाँ ‘च‘ (और) अव्यय का प्रयोग उचित है।
(iv) कुत:
कुतः – ‘कुतः’ अव्यय का अर्थ ‘कहाँ से’ होता है, हिन्दी अर्थानुसार आप कहाँ से डर के भाग रहे हो ? अतः यहाँ ‘कुत:‘ (कहाँ से) अव्यय का प्रयोग उचित है।
11. अधोलिखितवाक्येषु रेखाङ्कितं अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) त्वां पितुः नाम किम् अस्ति ?
(क) त्वम्
(ग) त्वया
(ख) तव
(घ) त्वयि
उत्तराणि:
(ख) तव
(ख) तव – वाक्य में रेखांकित शब्द त्वां अशुद्ध है, क्योंकि तुम्हारे पिता का नाम क्या है? इसके अनुसार पितुः शब्द में षष्ठी एकवचन का प्रयोग किया गया है, अतः यहाँ अशुद्ध त्वां के स्थान पर षष्ठी एकवचन में तव का प्रयोग होगा, जो सही है।
(ii) ते श्वः विद्यालयं गच्छन्ति ।
(क) अगच्छन्
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) अगच्छताम्
उत्तराणि:
(ग) गमिष्यन्ति
(ग) गमिष्यन्ति – प्रस्तुत वाक्य में क्रिया गच्छन्ति अशुद्ध प्रयुक्त की गई है, क्योंकि श्व: ( आने वाला कल) में हमेशा ‘लृट् लकार’ की क्रिया प्रयुक्त होती है, अतः ते कर्ता के अनुसार (ग) गमिष्यन्ति क्रिया का शुद्ध प्रयोग होगा ।
(iii) यत्रास्ते सा धूर्ताः तत्र गम्यताम् ।
(क) धूर्ता
(ख) धूर्त:
(ग) धूर्तौ
(घ) धूर्ते
उत्तराणि:
(क) धूर्ता
(क) धूर्ता – वाक्य में प्रयुक्ता धूर्ता: बहुवचन में प्रयुक्त शब्द अशुद्ध है, क्योंकि कर्ता ‘सा’ एकवचन में ही प्रयुक्त है अत: धूर्ता शब्द भी एकवचन में ही प्रयुक्त किया जाएगा। उत्तर विकल्प (क) धूर्ता शुद्ध है।
(iv) स: बुद्धिमती कानने एकं व्याघ्रं ददर्श ।
(क) तत्
(ख) ताः
(ग) ते
(घ) सा
उत्तराणि:
(घ) सा
(घ) सा- वाक्य में प्रयुक्त ‘सः’ शब्द पुल्लिंग में अशुद्ध है, क्योंकि ‘बुद्धिमती’ स्त्रीलिङ्ग शब्द के साथ ‘सा‘ वह स्त्री सर्वनाम का प्रयोग उचित रहेगा। अतः उत्तर (घ) सही है ।
खण्ड ‘घ’ : पठित-अवबोधनम्
(10 अङ्काः)
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (1/2 × 2= 1)
कश्चित् कृषकः बलीवर्दाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत । स: वृषभ: हलमूढा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषभ: नोत्थितः । भूमौ पतितं स्वपुत्रं दृष्टवा सर्वधेनूनां मातुः सुरभे: नेत्राभ्यामश्रूणि आविरासन् । सुरभेरिमामवस्थां दृष्टवा सुराधिप: तामपृच्छत् – “अयि शुभे ! किमेवं रोदिषि ? सा च ” भो वासव ! पुत्रस्य दैन्यं दृष्टवा अहं रोदिमि । स: दीन इति जानन्नपि कृषक : तं बहुधा पीडयति । सः कृच्छ्रेण भारमुद्वहति । इतरमिव धुरं वोढुं सः न शन्कोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत् ।
प्रश्नाः
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(क) क: क्षेत्रे अपतत् ?
(ख) सुरभि: कासां माता आसीत् ?
(ग) कृषकः कं बहुधा पीडयति स्म ?
उत्तराणि:
एकपदेन-
(क) वृषभ :/ दुर्बलवृषभः
(ख) सर्वधेनूनाम्
(ग) वृषभम्/दुर्बलवृषभम्
आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सुरभिः किमर्थं रोदिति स्म ?
(ख) पतितं वृषभम् उत्थापयितुं कः प्रायतत ?
(ग) सुराधिपः काम् अपृच्छत् ?
उत्तराणि:
पूर्णवाक्येन-
(क) स्वपुत्रस्य (वृषभस्य) दैन्यं दृष्टवा सुरभि: रोदिति स्म ।
(ख) क्रुद्धः कृषीवलः / कृषक : पतितं वृषभम् उत्थापयितुं प्रायतत ।
(ग) सुराधिपः सुरभिम् अपृच्छत् ।
इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘मातुः सरुभे: नेत्राभ्याम् अश्रूणि आविरासन्’ इत्यास्मिन् वाक्ये कृर्तपदं किम् ?
(ख) ‘कृषीवलः’ इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
(ग) ‘तीव्रगत्या’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तराणि:
निर्देशानुसारं / भाषिक कार्यम्-
(क) अश्रूणि
(ख) क्रुद्धः
(ग) जवेन
13. अधोलिखितं पद्याशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति बोधिताः ।
अनुक्तमप्यूहति पण्डितो जन: परेङ्गितज्ञानफला हि बुद्धयः ।।
प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(क) कीदृशा: नागा: वहन्ति ?
(ख) पशुना कीदृश: अर्थ : गृह्यते ?
(ग) परेङ्गितज्ञानफला : का : भवन्ति ?
उत्तराणि:
एकपदेन-
(क) बोधिताः
(ख) उदीरितः/ उदीरितोऽर्थः
(ग) बुद्धयः
आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) पण्डितः जनः किं करोति ?
(ख) मतयः कीदृश्यः भवन्ति ?
(ग) के के बोधिताः भारं वहन्ति ?
उत्तराणि:
(ख) मतय: परेङ्गितज्ञानफलाः भवन्ति ।
(क) पण्डितः जनः अनुक्तमपि ऊहति ।
(ग) हया: नागाः च बोधिताः भारं वहन्ति । / हयाः नागाश्च बोधिताः भारं वहन्ति ।
ई. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘नागाश्च वहन्ति बोधिता’ अस्मिन् वाक्ये क्रियापदं किम् ?
(ख) ‘गजाः’ इत्यस्य किं पर्यायापदं प्रयुक्तम् ?
(ग) ‘पण्डितः’ इत्यस्य विशेष्यपदं चित्वा लिखत ।
उत्तराणि:
(क) वहन्ति
(ख) नागा:
(ग) जन:
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (5)
(गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति । एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्टवा सिहं अपि हसति वदति च ।)
सिंहः – भोग ! मामप्येवमेवातुदन् एते वानराः ।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्य: वनराजपदाय येन विशालकायं पराक्रमिणं भयङ्करं चापि सिंहं गजं वा पराजेतुं समर्था अस्माकं जातिः । अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः । ( एतत्सर्वं श्रुत्वा नदीमध्यस्थित: एक: बक: )
बकः – अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति । अहं तु शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजनां निर्मीय च स्व सभायां विविधपदमलङ्कुर्वाणै: जन्तुमिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि अतः अहमेव वनराजपदप्राप्तये योग्यः ।
प्रश्ना:
अ. एकपदेन उत्तरत – (केवलं प्रश्नद्वयं) (1/2 × 2 = 1)
(क) स्थितप्रज्ञः इव कः स्थितः भवति ?
(ख) वानरः बकः च कस्मै आत्मानं योग्यौ मन्येते ?
(ग) सिंहं गजं वा पराजेतुं केषां जाति: आत्मानं समर्था मन्यते ?
उत्तराणि:
(क) बकः
(ख) वनराजपदाय
(ग) वानराणाम्
आ. पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सिंहः किं दृष्टवा हसति ?
(ख) वन्यजन्तूनां रक्षायै के आत्मानं क्षमाः मन्यन्ते ?
(ग) बकः कथं रक्षोपायान् क्रियान्वितान् कारयष्यिति ?
उत्तराणि:
(क) सिंहः गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्टवा हसति ।
(ख) वन्यजन्तूनां रक्षायै वानराः आत्मानं क्षमाः मन्यन्ते ।
(ग) बकः स्वसभायां विविधपदमलङ्कुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यति ।
इ. निर्देशानुसारं उत्तरत / भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘त्यक्त्वा’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(ख) ‘मामप्येवमेवातुदन् एते वानराः’ अस्मिन् वाक्ये क्रियापदं किम् ?
(ग) ‘शीतले’ इत्यस्य विशेष्यपदं चित्वा लिखत ।
उत्तराणि:
(क) विहाय
(ख) अतुदन्
(ग) जले
15. रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(क) कालायसचक्रं सदा वक्रं भ्रमति ।
(ख) सा निजबुद्धया भयाद् विमुक्ता ।
(ग) रामः सवाष्पम् अवलोकयति ।
(घ) करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
(ङ) ललितलतानां माला रमणीया ।
उत्तराणि:
(क) किं सदा वक्रं भ्रमति ?
(ख) सा कया भयाद् विमुक्ता ?
(ग) कः सवाष्पम् अवलोकयति ?
(घ) करुणापरो गृही कस्मै आश्रयं प्रायच्छत् ?
(ङ) कासां माला रमणीया ?
16. मञ्जूषात समुचितपदानि चित्वा अधोलिखित श्लोकस्य ः अन्वयं पूरयित्वा पुनः लिखत- (1 × 4 = 4)
रे रे चातक! सावधानमनसा मित्र !क्षणं श्रूयता-
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रहि दीनं वचः ।।
अन्वयः – रे रे मित्र चातक ! (i) …………. क्षणं श्रूयताम् । गगने कि बहव: (ii) ……….. सन्ति । सर्वे अपि एतादृशा: न (सन्ति) । केचिद् वृष्टिभि: (iii) …………. आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरत: दीनं (iv) …………. मा ब्रूहि ।
मञ्जूषा – अम्भोदाः, वसुधाम्, वचः, सावधानमनसा
उत्तराणि:
रे रे मित्र चातक ! (i) सावधानमनसा क्षणं श्रूयताम् । गगने हि बहव: (ii) अम्भोदाः सन्ति । सर्वे अपि एतादृशा: न (सन्ति) । केचिद् वृष्टिभि: (iii) वसुधाम् आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं (iv) वचः मा ब्रूहि ।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्त स्थानानि पूरयित्वा पुनः लिखित्- (1 × 4 = 4)
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
अन्येषां वद्ने ये तु ते चक्षुर्नामनी मते ।।
भावार्थ:- अस्य भावः अस्ति यत् अस्मिन् संसारे (i) …………. एव (ii) …………. मन्यन्ते यतोहि ते ज्ञानवन्तः भवन्ति ज्ञानं च मनुष्यस्य वास्तविकं (iii) ……….. अस्ति । अन्येषां जनानां (iv) ………..ये नेत्रे भवतः ते तु चक्षुर्नामनी भवतः । ज्ञानं विना ते अन्ध इव भवन्ति ।
मञ्जूषा – मुखे, बुद्धिमन्तः, नेत्रवन्तः, चक्षुः
उत्तराणि:
श्लोकभावार्थ:
अस्य भावः अस्ति यत् अस्मिन् संसारे (i) बुद्धिमन्तः एवं (ii) नेत्रवन्तः मन्यन्ते यतोहि ते ज्ञानवन्तः भवन्ति ज्ञानं च मनुष्यस्य वास्तविकं (iii) चक्षुः अस्ति । अन्येषां जनानां (iv) मुखे ये नेत्रे भवतः ते तु चक्षुर्नामनी भवतः । ज्ञानं विना ते अन्ध इव भवन्ति ।
17. अधोलिखित- कथांशं समुचित-क्रमेण लिखत- (1⁄2 × 8 = 4)
(क) सः पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत् ।
(ख) न्यायाधीशः तम् अतिथिं ससम्मानं मुक्तवान् ।
(ग) तस्मिन् गृहे रात्रौ कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः ।
(घ) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
(ङ) कश्चन निर्धनः जनः वित्तमुपार्जितवान् ।
(च) चौरस्य पद्ध्वनिना अतिथिः प्रबुद्धः अभवत् तमन्वधावत् च।
(छ) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टौ ।
(ज़) पठनकाले छात्रावासे निवसन् तस्य पुत्रः रुग्णः अभवत् ।
उत्तराणि:
कथा – क्रमानुसार लेखनम्-
(क) कश्चन निर्धनः जनः वित्तमुपार्जितवान्।
(ख) पठनकाले छात्रावासे निवसन् तस्य पुत्रः रुग्णः अभवत् ।
(ग) सः पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत् ।
(घ) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
(ङ) तस्मिन् गृहे रात्रौ कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः ।
(च) चौरस्य पदध्वनिना अतिथिः प्रबुद्ध अभवत् तमन्वधावत् च।
(छ) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टौ ।
(ज़) न्यायाधीशः तम् अतिथिं ससम्मानं मुक्तवान्।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूल उचितार्थं चित्वा लिखत – (केवल प्रश्नत्रयम्) (1 × 3 = 3)
(i) तस्य भार्या बुद्धिमती पितुर्गृहं प्रति चलिता ।
(क) पत्नी
(ख) भगिनी
(ग) भ्राता
(घ) भार:
उत्तराणि:
(क) पत्नी
(ii) मा ब्रूहि दीनं वचः ।
(क) बाला
(ख) बालः
(ग) वद्
(घ) वाहकः
उत्तराणि:
(ग) वद
(iii) एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ।
(क) धमनस्
(ख) मार्गे
(ग) धनम्
(घ) धारा
उत्तराणि:
(ख) मार्गे
(iv) शतशकटीयानं धूमं मुञ्चति ।
(क) धावति
(ख) पिबति
(ग) चलति
(घ) त्यजति
उत्तराणि:
(घ) त्यजति